SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 357 - तव मते चारोप्यस्मृतिरेव विशेषणज्ञानत्वेन हेतुः सा च रजतस्यात्रवोत्पत्तावप्युपपन्ना। नापि बाधानुपपत्तिरारोप्यस्य देशान्तरसत्वे प्रमाणम् / बाधविषयो ह्यभावो ध्वंसोऽत्यन्ताभावो वा ? उभयथापीह नष्टघटवन्नदेशान्तरसत्वं प्रतियोगिनः। न क्वचित्प्रतियोगिनः सत्त्वमत्यन्ताभावोऽपेक्षते तत्सत्वं च तत्र विरुद्धमिति अन्यत्र तदिति चेत् / न, भूतलस्थघटस्य तत्रैव समयान्तरेऽत्यन्ताभाववद्रअताधिकरणेऽपि तदत्यन्ताभावेऽविरोधात्। घटः स्वात्यन्ताभाववद्देशसंयोगी रजतं च तदात्मकमिति विशेषोऽकिंचित्कर एव घटादेरप्युत्पत्तिपूर्व मृदादावत्यन्ताभाव इत्युक्तम् / नन्वत्र प्रतीतिकालेऽपि तदत्यन्ताभावोऽस्ति / अत्र कदापि रजतं नास्तीति प्रतीतेरिति चेत् / तत्किमिदं रजतमिति नास्ति तदभेदानुभवः ? स मिथ्यानुभव नियम इत्यर्थः। किञ्चैवमपि परमते तत्रैवोत्पन्नस्यापि रजतस्य सामान्यलक्षणप्रत्यासत्त्या पूर्व ज्ञातुं शक्यत्वान्न पूर्वानुभवस्मृतिविषयस्य देशान्तरसत्त्वसिद्धिरित्यभिप्रेत्याह-तब मते चेति / चतुर्थमपवदति-नापीति / इह विनष्टघटवदिति / यथोत्पत्तिदेशे एव विनष्टस्य घटस्य तद्देशीयध्वंसात्यन्ताभावप्रतियोगिनो न देशान्तरसत्वं तद्वद्रजतस्यापि देशान्तरसत्वाभावे [पि] ध्वंसस्य वाऽत्यन्ताभावस्य वा पुरोदेशे संभवाद्वाधोऽन्यथाऽप्युपपन्न इत्यर्थः / अत्यन्ताभावप्रतियोगिनोः सहावस्थानविरोधाद्देशान्तरे प्रतियोगिसत्त्वसिद्धिरिति शङ्कते -नन्विति / सामयिकात्यन्ताभावस्य समयभेदेन प्रतियोगिसामानाधिकरण्यस्य दर्शनान्न विरोध इति परिहरति-न भूतलेति / यद्यत्र संयोगितया वर्तते तस्य तत्र समयान्तरेऽत्यन्ताभावोऽस्तु रजतं तु शुक्तौ न संयोगितया वर्तत इति वैषम्यमाशंक्याहघट इति / अकिंचित्कर इति संयोगिनीव समवायिन्यपि मानबाधात् सामयिकात्यन्ताभावोपपत्तेरिति भावः / एतच्च प्रागभावखण्डने उपपादितमित्याह-घटादेरपीति / - बाधप्रत्ययेन शुक्तौ त्रैकालिकरजताभावप्रतीतेः रजतस्य तत्रावस्थानायोगेन देशान्तसत्त्वसिद्धिरिति शङ्कते-नन्वत्रेति / शुक्तौ रजतानुभवविरोधान्न तस्य' त्रैकालिकाभावसिद्धिरित्याह-तत्किमिति / रजतानुभवस्य मिथ्यानुभवत्वात् त्रैकालिकरजताभावस्तत्र न विरुद्ध इति शङ्कते-स मिथ्येति / किं मिथ्यानुभवत्वमन्यथाख्यातित्वमुत स्वसमानकालीनस्व समानाधिकरणात्यन्ताभावप्रतियोगिविषयकानुभवत्वं ? आद्ये शुक्तो त्रैकालिकरजताभावसिद्धौ तत्प्रतियोगिनो देशान्तरसत्वसिद्धया तदनुभवस्यान्यथाख्यातिरूपमिथ्यानुभवत्वसिद्धिः / तत्सिद्धौ च त्रैकालिकाभावसिद्धिरिति परस्पराश्रय इत्याह-मिथ्यानुभवत्वमिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy