________________ 356 सटीकाद्वैतदीपिकायाम् रूपत्वेन सद्परक्तत्वायोगाच्च / एवं समारोप्यस्य देशान्तरे सत्वे प्रमाणाभावादपि न सा। भ्रान्त्या पुरोदेशसत्त्वस्यैव विषयीकरणात् वाधेनापि तत्रासत्वस्यैव प्रतीतेः। न च भ्रमानुपपत्तिस्तत्र मानं प्रमितिपूर्वकत्वादारोपस्येति वाच्यम् / अन्वयव्यतिरेकाभ्यां हि पूर्वदर्शनं भ्रमानुकूलं न तु प्रमैव तद्रूपेणैवानुकूलत्वे गौरवात् मानाभावाच्च। पुनरपि पूर्वविषयसत्वमावश्यकमिति शंकापरिहारी। ___अथ पूर्वदर्शनमपि विषयस्यान्यत्रासत्वे नानुकूलं समानविषयस्यवानुकलत्वात् / न च विशेषणज्ञानादिकं भिन्नविषयमपि विशिष्टज्ञानादिजनकमिति वाच्यम् / तत्र हि साक्षात्कारणम् अत्र तु संस्कारः। संस्कारश्च स्वविषय एव कार्यमुत्पादयति। विशेषणस्यापि विशिष्ट प्रत्यक्षविषयत्वाच्चेति चेत्। न। व्याप्तिसंस्कारस्य स्वविषयजातीयवह्नयनुमितिजनकत्वात् विषयरजतादेर्देशान्तरसत्त्वे बाधकमुक्त्वा साधकमपि नेत्याह-एवमिति / सा अन्यथा. ख्यातिरित्यर्थः। किमारोप्यस्य देशान्तरे सत्त्वे भ्रांतिर्मानं, वाधो वा, भ्रान्त्यनुपपत्तिा, वाधानुपपत्तिर्वा ? नाद्य इत्याह-भ्रान्त्येति / द्वितीयं दूषयति-बाधेनेति / तत्रेति / पुरोदेश इत्यर्थः / तृतीयं निराकरोति-न चेति / अनुभूतरजतस्यैव रजतभ्रमोदयात् तदनुभवमात्र भ्रमेऽपेक्ष्यते अनुभवमानं च न विषयसत्तामपेक्षत इति दूषयति-अन्वयेति / ' पूर्वानुभवोऽपि स्वसमानविषयभ्रमं प्रत्येव हेतुरिति भ्रमविषयस्यान्यत्र सत्त्वसिद्धिरित शंकते-अथेति / / ननु ज्ञानं स्वसमानविषयज्ञानं प्रत्येव हेतुरिति न नियमः विशेषणज्ञानात् 'विशिष्टज्ञानस्य' धूमज्ञानाद्वह्निज्ञानस्य दर्शनादित्याशंक्य संस्कारद्वारा ज्ञानहेतोः स्मृतिजननवत्स्वसमानविषयज्ञानहेतुत्वं नियतमिति परिहरति-न च विशेषणेत्यादिना / विशिष्टज्ञानहेतोविशेषणज्ञानस्यापि तत्समानविषयत्वमस्तीत्याह-विशेषणस्येति / स्वमतेन परिहरति-न व्याप्तीति / लिङ्गदर्शनव्याप्तिसंस्काराभ्यां ह्यनुमितिर्भवति / न तु व्याप्तिविशिष्टपक्षधर्मताज्ञानरूपपरामर्शोऽनुमितिहेतुर्मानाभावात्तस्मिन् सति पक्षताऽभावेनानुमित्ययोगाच्च। तथा हि - व्याप्तिधूम! वह्निसामानाधिकरण्यविशेषस्ततश्च पर्वतत्वस्य तद्विशिष्टधूमसामानाधिकरण्यविषयपरामर्श वह्निधूमपर्वतत्वादीनां सामानाधिकरण्यस्फुरणेनानुमितिविषयस्य पर्वतत्ववह्निसामानाधिकरण्यस्य तत्रैव सिद्धत्वान्न पक्षता। अतो व्याप्तिसंस्कारसहितलिङ्गदर्शनमेवानु मतिहेतुस्तदुक्त टीकाकृता-दृश्यते हि लिङ्गदर्शनसंस्कारयोः संभूय लिङ्गिज्ञानोत्पादनमिति / तथा च सामान्य लक्षणप्रत्यासत्यभावात् व्याप्तिसंस्कारजन्यानुमितेः ततो भिन्नविषयत्वान्नोक्त