SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 355 विषयः तौ चान्यत्र वर्तेते। रजतेऽपीदन्त्वस्य सत्त्वादिति। तन्न। कि भ्रमविष. यीभूतेदन्त्वविशिष्टधर्मी रजतमेव तहि न शुक्तौ प्रवर्तेत तस्या भ्रमाविषयत्वात् / शुक्तिरेव चेत् स एव दोषः / किञ्च विशिष्टज्ञानं विशिष्ट विषयीकरोति विशिष्टं च तव विशेषणं विशेष्यं तदुभयसंबन्धश्चेति कथं नासत्ख्यातिः ? ____ यदपि विशेष्यावृत्तिप्रकारकं ज्ञानं भ्रम इति सन्मात्रविषयत्वेऽपि भ्रान्तित्वोपपत्तिरिति। तदप्युक्तविधया निरस्तं वैशिष्टयभानाभावे तत्प्रकारकत्वानिर्वाहाच्च। न च विशेषणताविशेषः प्रकारत्वं, तस्यैव द्रव्यगुणादिसाधारणस्य दुनिरूपत्वात् एतेन जात्यादिविशिष्टप्रत्यक्षे न क्वापि विशेषणविशेष्यसंबन्धो विषयः अगृहीतासंसर्गधर्ममिविषयकैकज्ञानस्य विशिष्टज्ञानत्वादिति नासतख्यातिरिति प्रत्युक्त तथा सति भेदाग्रहात् प्रवृत्तिरिति अन्यथाख्यातिविलोपप्रसंगात् / सदुपरक्तासत्प्रतीतिनिरास: अथ सदुपरक्तमसत्प्रतीयतां तावतवासख्यातिवलक्षण्यादिति / न / असतः इन्द्रियसंबन्धाभावात संविदभिन्नत्वायोगाच्च प्रत्यक्षत्वानुपपत्तेः। असतो निःस्व नुवदति -- यत्त्विति / रजतस्यापीदंत्वविशिष्टत्वेऽपि किं तदेव भ्रमेऽपीदंत्वविशिष्टतया प्रतीयते उत शुक्ति: आद्ये शुक्तौ प्रवृत्तिर्न स्यादिति दूषयति -तन्नेति / द्वितीये असत्ख्यातिप्रसंगस्तदवस्थ इत्याह-शुक्तिरेवेति / परमते विशिष्टज्ञानविषयपर्यालोचनयाप्युक्तदोषो दुनिवार इत्याह-किञ्चेति / विशेष्यावृत्तिप्रकारकज्ञानस्यैव भ्रमत्वान्न तत्र वैशिष्टयभानमिति केन चिदुक्तमनद्य निराकरोति - यदपीत्यादिना / उक्तविधयेति / विशिष्टप्रत्ययानुपपत्तेरित्यर्थः / किं च भासमानवैशिष्ट्यप्रतियोगिन एव प्रकारत्वाद् वैशिष्ट्यभानाभावे सप्रकारकत्वमेव न स्यादित्याह--वैशिष्ट्येति / / वैशिष्टयभानाघटितप्रकारत्वं निराकरोति-न चेति / विशेषः किं जातिरूप उपाधिरूपो वोभयथापि दुनिरूप इत्यभिप्रेत्याह--तस्येति / विशिष्टप्रमाया अपि विशेषणविशेष्यवैशिष्ट्याविषयत्वात् भ्रमस्यापि न तद्विषयता / न चैवं विशिष्टज्ञानत्वानुपपत्तिस्तस्यान्यथाप्युपपत्तेरित्यन्यथाख्यात्येकदेशिनस्तन्मतं निराकरोति--एतेनेति / अत्र प्रवर्तकज्ञानस्यासंसर्गाग्रहघटिततया अख्यातितो न विशेष इत्याह-तथा सतीति / रजतस्य तद्वशिष्टयस्य चासत्वेऽपि नासतव्यातिमतापातःतन्मते भ्रमविषयस्य सर्वस्यासत्वादत्र तदभावादिति शंकते--अथेति / परमते स्वमते चासतः प्रत्यक्षत्वायोगान्न तस्य भ्रमगोचरतेत्याह-नासत इति / असतः सदुपरागोऽप्ययुक्त इत्याह-असत इति / भ्रम
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy