SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ सटोकाद्वैतदीपिकायाम रजतज्ञानविषय इति चेत् न, रजताकारज्ञानांशस्य तदविषयत्वात् / तदाहुः-न हन्याकारज्ञानमन्यालंबनमिति तथापि ज्ञानमेकमिति चेत् तहि रजतारजतगोचरसमूहालम्बनाद्रजतार्थ्यरजते प्रवर्तेत। तस्याप्येकज्ञानत्वात् / भेदग्रहः प्रतिवन्धकश्चेत तहि तदभावेनेवालं किं भ्रान्त्या। अत एव ज्ञानं यद्विशेष्यकं तत्रैव प्रवर्तकमिति निरस्तं लाघवेन ज्ञानस्य स्वविषय एवं प्रवृत्तिजनकत्वाच्च / तस्मात्कारणाभावात् पुरोदेशे प्रवृत्त्यनुपपत्तेश्च नान्यथाख्यातिः / एवं शुक्तिरजतादिवैशिष्टयस्यासतः प्रत्यक्षत्वायोगाच्च नान्यथा ख्यातिः। न हि शुक्तौ रजताभाववत्यां तत्तादात्म्यं सद्भवति / तथा सति वाधायोगाच्च / न च रजततादात्म्यं रजतत्वसमवायो वा यौ रजते वर्तेते तावेवात्रापि प्रतीयेते इति नासत्ख्यातिरिति वाच्यम्। शुक्तिर्मिकरजतरजतत्वप्रतियोगिकयोस्तयोः क्वचिदप्यसत्त्वात्। अभेदानुभवो हि स्वप्रकारीभूतधर्मद्वयाश्रयाभेदं विषयीकरोति धमौं चात्रेदंत्वरजतत्वे तदाश्रयौ च शुक्तिरजते। तदुभयप्रतियोगिकाभेदश्च भ्रमविषयो न क्वचिदस्ति / एवं शुक्तिरजतत्वसमवायो विशिष्टज्ञानविषयो न क्वचिदस्ति सत्वे वा प्रकृत एव स स्यादिति न भ्रमः। प्रकारान्तरेणान्यथाख्यातिसमर्थनम् यत्त्विदंत्वविशिष्टमिनिरूपितो रजताभेदो रजतत्वसमवायो वा भ्रम रजतेति / रजतज्ञानस्य पुरोवर्तिविषयेदमाकारज्ञानाभिन्नत्वात् ततः पुरोवर्तिनि प्रवृत्तिरिति शंकते-तथापीति / अतिप्रसङ्गेन दूषयति-तीति / रजतारजतसमूहालम्बने रजतादरजते भेदग्रहान्नारजते ततः प्रवृत्तिरित्याशंक्य तर्हि भेदाग्रहस्य प्रवृत्ताववश्यापेक्षितत्वात् तत एव तदुपपत्ती भ्रान्तिर्न कल्पनीयेत्याहमेदग्रह इत्यादिना / उक्तातिप्रसङ्गादेव ज्ञानं स्वविशेष्ये प्रवर्तयतीत्येतदप्ययुक्तमित्याहअत एवेति / दोषान्तरमाह-लाघवनेति / प्रवर्तकज्ञानकारणाभावाच्च विषयस्य पुरोवतित्वाभावात् तत्र प्रवृत्त्यनुपपत्तेश्चान्यथाख्यातिरयुक्तेत्याह-तस्मादिति / किञ्च परमते शुक्तिरजततादात्म्यस्यासत्वादसतः प्रत्यक्षत्वायोगान्नान्यथाख्यातिरित्याह-एव मति / शुक्तावाराप्यमाणस्य रजततादात्म्यस्य रजतत्वसमवायस्य वा परम चिरजतेऽसत्त्वात्परमत नासतः प्रत्यक्षतेत्याशक्य तथापि पुरोतिर्मिकस्येतरस्यासत्त्वात्तद्विषयभ्रमस्यासाद्वषयत्वमावश्यकमिात दूषयात - न चेत्यादिना / शुक्तिधर्मिकस्य रजततादात्म्यस्य रजतत्वसमवायस्य चासत्वनुपपादयति-अभेदानुभवो हीत्यादिना। नन्विदंत्वविशिष्टमिकं रजततादात्म्यादिकं भ्रमविषयः वास्तवरजतमपीदंत्वविशिष्टमेवेति तमिकरजततादात्म्यादेस्तत्र सत्वात् भ्रमो नासद्विषयक इति चोद्यम
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy