________________ तृतीयः परिच्छेदः 353 तथा कारणत्वग्राहकाभावात् / द्रव्यविशिष्ट प्रत्यक्षस्य विशेषणेन्द्रियसंयोगजन्यस्वनियमाच्च / किञ्च दोषोऽपि शुक्तिरजतवैशिष्ट्यांशज्ञान एव कारणं, तस्य तेन विनाऽभावात् / न तु रजतांराज्ञानेऽपि तेन विनापीदंतांशज्ञानवत्तत्सत्वात तस्योभयांशकारणत्वकल्पनागौरवात प्रमाणाभावाच्च / यथार्थज्ञानस्य दोषजन्यत्वाभावाच्च ततस्तज्ज्ञानाजनकत्वान्न दोषः प्रत्यासत्तिः / रजतस्मृतिसस्कारवोः प्रत्यात्तित्वनिरासः अकि प्रत्यासत्यन्तरचिन्तया ? अनुभूतरजतस्यैव भ्रमोदयात् संस्कारः स्मृतिर्वा प्रत्यासत्तिरिति चेत् / न, ज्ञानप्रत्यासत्तेनिरस्तत्वात् / यद्येन रूपेणानुभूतं तत्रैव तद्विशिष्टज्ञाने तस्य प्रत्यासत्तित्वाच्च / नापोन्द्रियसंवद्धविशेषणता, भूतलेऽभाववच्छुक्तौरजतस्याभावात्। तत्सत्वे वाऽभावज्ञानस्येव रजतज्ञानस्य प्रमात्वापातात / . . किञ्च यदि रजतज्ञानविषयो रजतं पुरोवर्तिनि न स्यात् तहि रजतार्थी ततः पुरोतिनि न प्रवर्तेत ज्ञानस्य स्वविषय एव प्रवर्तकत्वात्। शुक्तिरपि विशेषणेन्द्रियसंयोगस्येव हेतुत्वावधारणाद् देशान्तरोयरजतादौ चेन्द्रियासंयोगान्न तद्विशिष्टप्रत्यक्षसिद्धिरित्याह-द्रव्येति / . किञ्चेदमंशप्रत्यक्ष यथा दोषो न हेतुस्तथाऽन्यत्र रजतांशप्रत्यक्षेऽपि तस्याहेतुत्वाद् भ्रमेऽपि रजतांशप्रत्यक्षे न स हेतुः व्यभिचारात् किन्तु शुक्तिरजततादात्म्यांशज्ञान एव स हेतुः लाघवादित्याह--कञ्चात / परमते रजतांशज्ञानस्थ यथार्थत्वाच्च न दोषजन्यतेत्याह-यथावति / दाषस्य रजतांशज्ञानाहेतुत्वसाधनफलमाह - तत इति / दण्ड्ययमासीदित्यादाविव व्यवहितरजतादौ ज्ञानादिरेव प्रत्यासत्तिरिति शंकते-अथेति / शाब्दापरोक्षवादे ज्ञानादेः प्रत्यासत्तित्वनिराकरणान्न तस्य कुत्रापि प्रत्यासत्तितेत्याह-न ज्ञानेति / किञ्च यद्यत्र विशिष्यानुभूतं तत्रैव तद्विशिष्टज्ञाने संस्कारादिकं प्रत्यासत्तिरन्यथा यस्मिन्दण्डवति देवदत्ते पूर्वं दण्डा नानुभूतस्तत्रैव समयान्तरे दण्डम स्मृतिमतो दण्ड्य'यमित्यादिविशिष्टज्ञानप्रसङ्गात् / ततश्च तद्वशिष्टयस्य पुरावर्तिनि पूवमननुभूतत्वान्न तत्र संस्कारादिकं प्रत्यासत्तिरित्यभिप्रत्याह-यद्यति / ननु विशेषणविशेष्यभावसन्निकर्षोऽस्त्वित्याशक्याह--नापीति। अन्यथाख्यातिमतेऽपि रजतज्ञानात् पुरोवतिनि प्रवृत्तिर्न स्यात् तन्मते तद्विषयस्य पुरोवर्तित्वाभावादित्याह--किं चेति / रजतभ्रमस्य शुक्तिविषयत्वात् ततः शुक्तौ प्रवृत्तियुक्तेति शङ्कते - शुक्तिरपीति / रजतनिरूपितज्ञानांशस्य शुक्तिविषयत्वमयुक्तम् अनुभवविरोधादित्याह