SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 352 सटीकाद्वैतदीपिकायाम् कर्षातिरिक्तसकलतत्कारणसत्वात् / अस्तु विशिष्टप्रमायां स हेतुः भ्रमस्तेन विनापीति चेत्; न, लाघवेन जन्यविशिष्टप्रत्यक्षत्वावच्छेदेनैव तज्जन्यत्वावधारणात् / तदभावेऽनुमितिवत् प्रत्यक्षमेव न स्यात् / यदीन्द्रियं रजतसन्निकृष्टं न स्यात् तहि प्रत्यक्षजनकं न स्यात् अन्यथा प्रमामपि जनयेदितीन्द्रियस्य प्रत्यक्षजनकमात्रस्यैव तद्विषयसन्निकृष्टत्वव्याप्त्यवधारणाच्च / अन्यथा सत्यप्रवृ. तावेव विशिष्टज्ञानं हेतुरिति जितमविवेकिना। एतेन दोषबलादसन्निकृष्टमपि भातीति निरस्तम् / क्लप्तकारणं विना कार्यानुत्पत्तेः। . अन्यथा क्लुप्तकारणं विना दोषात् ज्ञानमिव प्रवृत्तिरेव ततोऽभ्युपेयतां किमलौकिकज्ञानेन पुरोवतिनि रजतं जानामीति व्यवहारस्याविवेकादप्युपपत्तेः। - अस्तु तहि दोष एव प्रत्यासत्तिरिति / न, प्रमाजनकजातीयस्यैव सन्निकपत्वात् / किं चैवमप्रमाया ज्ञानसामग्यतिरिक्तकारणाभावेनाप्रामाण्यस्य परतस्त्वमपि न स्यात्; दोषस्य प्रत्यासत्तित्वेनैव जनकतया सामग्रीभेदाभावात् / न च दोषत्वेनापि कारणत्वमिति वाच्यम् दोषान्वयव्यतिरेकयोरन्यथासिद्धत्वेन किञ्च विशेषणसन्निकर्षस्याकारणत्वे वह्नयनुमित्यनन्तरं वा तत्प्रत्यक्ष स्यादित्यपि द्रष्टव्यम् / विशेषणेन्द्रियसन्निकर्षस्य विशिष्ट प्रत्यक्षप्रमाहेतुत्वमङ्गीकृत्य भ्रमस्तेन विनापि सिध्यतीति शंकते-अस्त्विति / लाघवादितर्कानुगृहीतकारणताग्राहकमानेन जन्यविशिष्टप्रत्यक्षमात्रे तद्विषयेन्द्रियसन्निकर्षस्य कारणत्वावधारणादसन्निकृष्टस्य न प्रत्यक्षभ्रमविषयतेत्याह-जन्यविशिष्टेत्यादिना / अबिवेकिनेति / अख्यातिवादिनेत्यर्थः / विशेषणसन्निकर्षाभावेऽपि दोषबलाद् भ्रमोत्पत्तिरिति केषाञ्चिदभ्युपगममुक्तम्यायेन निराकरोति-एतेनेति / अौकिकेति / व्यधिकरणप्रकारकज्ञानेनेत्यर्थः। अलोकिकज्ञानाभावे पुरोवर्तिनि रजतं जानामीत्यादिव्यवहारः कथमित्यत आह-पुरोवतिनीति / देशान्तरस्थरजतादौ दोष एवेन्द्रियप्रत्यासत्तिरिति शंकते -अस्त्विति / प्रत्यास. तिविधया प्रमाजनकजातीयस्यैव विशेष्यांशे सन्निकर्षत्वदर्शनाद् विशेषणांशेऽपि तस्यैव सन्निकर्षत्वं वाच्यम् / दोषस्तु न तथेति स न सन्निकर्ष इत्याह -न प्रमेति / किञ्च दोषस्य प्रत्यासत्तिविधया भ्रमहेतुत्वे प्रमायामपि प्रत्यासत्तिजन्यत्वेन भ्रान्तेः प्रमाऽप्रमा साधारणकारणमात्रजन्यत्वेन स्वतस्त्वमेव स्यान्न परतस्त्वमित्यपसिद्धान्तापात इत्याहकिञ्चेति / भ्रमस्य दोषत्वेनापि दोषजन्यत्वात् परतस्त्वमित्याशंक्याह-न चेति / अन्यथा सिद्धत्वेनेति / प्रत्यासत्तिविधयेत्यर्थः / न च भ्रमस्य भ्रमत्वानुपपत्त्या दोषत्वेनापि दोषजन्यत्वग्रह इति वाच्यम् / तद्विषयस्य वाधयोग्यत्वेनैव तदुपपत्तेरिति भावः। किञ्च दण्डीत्यादिद्रव्यविशिष्टप्रत्यक्षे
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy