________________ तृतीयः परिच्छेदः 351 भानादित्याहुः। तन्न, तद्ग्राहकेन्द्रियाभावात् चक्षुरन्वयव्यतिरेकानुविधानाच्चक्षुरेव ग्राहकमिति चेत; न तस्य तेनासंसृष्टस्य तदग्राहकत्वात् विशिष्टप्रत्यक्षे हि विशेष्येन्द्रियसन्निकर्षवद्विशेषणेन्द्रियसन्निकर्षोऽपि कारणम् / सत्यपि पर्वतेन्द्रियसन्निकर्षादिकारणे तेन विना वह्निविशिष्टप्रत्यक्षानुदयात् / न च सत्यामपि विशिष्ट प्रत्यक्षसामग्रयामनुमितिस्तत्सामग्रीप्राबल्यादिति वाच्यम् / अनुमित्साविरहदशायां प्रत्यक्षसामग्रया एव बलवत्त्वात्, अन्यथा त्वदभिमतसंशयोत्तरप्रत्यक्षाभावप्रसंगात् सिध्यभावटितपक्षतायास्तत्रापि सत्त्वात् / . प्रकृतमानातिरिक्तमानाभावघटितायाः पर्वतेऽप्यसत्वात् विशेषणसन्नि स्वस्माद्भेदग्रहे भ्रान्तिप्रसंगादिति नेत्याह--सत्यप्रवृत्ताविति / प्रबृत्तिनिवृत्त्योरिष्टानिष्टज्ञाने सामान्यकारणे / सत्ययोः प्रवृत्तिनिवृत्योस्तु यत्सामान्यन्यायेन इष्टानिष्टविशिष्टज्ञाने विशेषकारणे। ततश्च विपरीतसमूहालम्बनादापाद्यमाने सत्ये प्रवृत्तिनिवृत्ती विशेषकारणाभावादेव न भवतः / ततश्चोक्तरीत्यैवाख्यातिनिरसनीयेति भावः। ___ एवं भ्रान्ति साधयित्वा तद्विषयं निरूपयितुमुपक्रमते-च्चेति / भ्रान्तिविषयस्य रजतादेः ख्यातिबाधान्यथानुपपत्त्या देशान्तरे सत्त्वसिद्धेर्न मिथ्यात्वमित्यन्यथाख्यातिवादिमतमनुवदति--भत्र केचिदिति / असत्त्वे ख्यात्यनुप पत्तिवद्देशान्तरस्थत्वेऽपि तदनुपपत्तिस्तुल्येति दूषयति-तन्नेति / ग्राहकाभावोऽसिद्ध इति शङ्कते--चक्षुरन्वयेति / चक्षुषः प्राप्यकारित्वनियमाद्देशान्तरस्थेन प्राप्त्यभावात्तस्य न तद्ग्राहकतेत्याह-न तस्येति / ननु जन्यविशिष्ट प्रत्यक्षे विशेष्येन्द्रियसन्निकर्षों विशेषणज्ञानं च कारणम् / रजतादेश्च भ्रान्तौ विशेषणतया न तत्सन्निकर्षापेक्षेति नेत्याह-विशिष्टेति / कारणान्तरे सत्यपि विशेषणेन्द्रियसन्निकर्षाभावे विशिष्टप्रत्यक्षानुदयादिति व्यतिरेकमाह-सत्यपीति / पर्वते वह्निविशिष्टप्रत्यक्षाभावो न तत्सन्निकर्षविरहात् किन्तु बलवदनुमितिसामग्रीप्रतिबन्धादित्याशंक्य तथासति प्रत्यक्षसामग्रथा एव बलवत्त्वादनुमितिरेव न स्यादिति दूषयति-न चेत्यादिना / अनुमितिसामग्रथा बलवत्वे बाधकमाह-अन्यथेति / स्थाणुत्वव्याप्यवक्रकोटरादिमानयमिति त्वदभिमतविशेषदर्शनस्य परामर्शरूपतयाऽनुमितिसामग्रीत्वात् तदनन्तरं स्थाणुत्वानुमितिरेव स्यान्न प्रत्यक्षमित्यर्थः। तत्र पक्षताभावानानुमितिरित्याशंक्याह-सिद्धयभावेति / ननु सिद्ध घभावो न पक्षता किन्तु प्रकृतानुमानातिरिक्तमानाभावः स्थाणुत्वादी च सन्निकृष्टेन्द्रियस्य सत्वान्न तत्र पक्षतेत्याशंक्य तहि विशेषणेन्द्रियसन्निकर्षस्याहेनुत्वे पर्वतादावपि वन्हिसाधकप्रत्यक्षसत्वात् पक्षता न स्यादित्याह-प्रकृतेति / 45