________________ 350 सटोकाद्वैतदीपिकायाम् न तु भेदाग्रहसाध्या गौरवात् / ज्ञानं च स्वविषये प्रवर्तकमित्युक्तम् / ततो रजत. प्रकाशः शुक्तिविषयः शुक्तौ प्रवर्तकत्वात् सम्मतवदिति शुक्तिरजतसंसर्गबुद्धिसिद्धिः / ननु भेदाग्रहात् विशिष्टज्ञानस्य लाघवात् कारणत्वमिति-रजतज्ञानस्य शुक्तिविषयत्वमिति / भेदाग्रहस्य प्रतिवन्धकाभावतया प्रवृत्ति प्रत्यन्यथासिद्धत्वात इष्टज्ञानस्यैव प्रवर्तकत्वात् / न तु तद्विशिष्टज्ञानस्य, गौरवात् / न च जनक ज्ञानसमानकालीनस्य भेदग्रहस्याप्रतिबंधकत्वान्न भेदाग्रहः प्रतिबंधकाभाव इति वाच्यम् / भेदग्रहस्य प्रतिवद्धप्रवृत्तिविषयाभावविषयतया वाधवज्जनकाविरोधित्वेऽपि प्रतिबंधकत्वात् / सत्यप्रवृत्तौ विशिष्टज्ञानमपि विशेषकारणमिति विपरीतसमूहालंबनान्न युगपत्प्रवृत्तिनिवृत्त्यापातः / भ्रमे नैयायिकपक्षनिरास: तच्च शुक्तिसंसृष्टरजतं मिथ्येव / अत्र केचित् शुक्तौ प्रतीयमान रजतं देशान्तरे सत् अत्र बाधात् असतो भावस्य प्रवर्तकत्वे गौरवादित्यर्थः / कथमेतावता भ्रांतिसिद्धिरित्यत आह-ज्ञानं चेति / ज्ञानस्य' स्वविषय एव प्रवर्तकत्वाभावे पुरस्थितरजतज्ञानात् पृष्ठदेशस्थरजतेऽपि प्रवृत्तिः स्यादित्यादि शाब्दापरोक्ष उक्तम् / ततश्च रजतज्ञानस्य पुरोवर्तिवस्तुविषयत्वस्यावश्यकत्वाभ्रान्तिसिद्धिरित्यर्थः / एतेनेष्टज्ञानमेव प्रवर्तक भेदाग्रहस्तु प्रवृत्ती प्रतिवन्धकाभावतयैवोपयुज्यत इति वक्ष्यमाणमतमपि निरस्तमिति द्रष्टव्यम्। __ अत्र मणिकारकृतमख्यातिनिराकरणं निरोकरोति-नन्विति / अख्यातिमतेऽपीष्टज्ञानमेव प्रवर्तकं भेदाग्रहस्तु प्रतिवन्धकाभावतयाऽन्यथासिद्धत्वान्न प्रवृत्ती हेतुरिति तन्मत एव लाघवमित्याह-भेदाग्रहत्येति / भेदाग्रहस्य कारणत्वेऽपि तस्य पृथक्कारणत्वेन ज्ञानकारणताग्राहकमानाविषयत्वान्नोक्तदोष इत्यपि द्रष्टव्यम्। ननु भेदग्रहस्य प्रतिबन्धकत्वे हि तदभावः कारणं स्यात्, तच्चायुक्तं इष्टग्रह विना तद्भेदग्रहासंभवेन तस्य प्रवर्तकज्ञानसहचारित्वादिति नेत्याह-न चेति / भेदग्रहस्य प्रवर्तकाविरोधित्वेऽपि प्रवृत्तिविरोधितया प्रतिवन्धकत्वं सदृष्टन्तमाहभेदग्रहस्येति / यथा वाधज्ञानं परामर्शाविरुद्धमपि ग्राह्याभावविषयतयाऽनुमिति प्रतिवध्नाति तथा रजतभेदग्रहोऽपि प्रवृत्तिविषयरजततादात्म्याभावविषयतया प्रवृत्ति प्रतिवघ्नातीति तदभावोऽन्यथासिद्ध इत्यर्थः / / ननु भेदाग्रहे सतीष्टज्ञानमात्र प्रवर्तकं अनिष्टज्ञानमात्रं निवर्तकं चेदिमे रङ्गरजते इति विपरीतसमूहालम्बनारंगे रजतभेदाग्रहात्प्रवृत्तिवद्रंगभेदाग्रहान्निवृत्तिरपि स्यादेव रजते रंगभेदाग्रहान्निवृत्तिवद् रजतभेदाग्रहात् प्रवृत्तिरपि स्यात् रंगस्य रजतस्य च