SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 349 प्रस्तुतं तदनूद्येव किञ्चनेति निवार्यते // 17 // यच्चावोचद्विनार्थेऽपि नानाशब्दप्रसिद्धितः / नेह नानेति वाक्येन ब्रह्माव्याप्यं निषिध्यते // 18 // नानेत्यस्य विनार्थत्वाद्विनाभूतं निषिध्यते / अविनाभूतमस्तीति सत्तवार्थात्तु लभ्यते // 19 // तन्न ब्रह्म विना भूतं खपुष्पसदृशं यतः। विनाभूतनिषेधेऽपि विश्वसत्ता भवेत्कुतः // 20 // असत्वेऽपि प्रपञ्चस्याविनाभावस्य संभवात् / कालादौ दैशिकी व्याप्तिः कालिकी वान सिद्धयति // 21 // तस्मात् सर्वस्य जगतोऽधिष्ठाने परमात्मनि / निषेधान्नेह नानेति मिथ्यात्वं तस्य सिद्धयति // 22 // एवमन्यान्यपि वाक्यानि तत्र द्रष्टीव्यानि / मिथ्यात्वे भ्रमज्ञानस्य प्रमाणत्वोपपादनम् . . किंचास्ति तावच्छुक्तौ रजतेच्छाजन्या प्रवृत्तिः सा चेष्टज्ञानसाध्या लाघवात् विनभ्यां नानाजीन सहेति सूत्रे वि नञ् इत्येताभ्यां पृथग्भावरूपे असहार्थे ना ना इत्येतो प्रत्ययो भवत इति स्मरणान्नानाशब्दस्य विनार्थत्वे नात्र ब्रह्मणा विनाभूतमव्याप्तं निषिध्यत इत्यर्थः / उक्तार्थे नवीनश्लोकमाह-नानेत्यस्येति / ब्रह्माव्याप्यस्यासत्वात् परमते तन्निषेधोऽनुपपन्न इत्यभिप्रेत्य दूषयति-तन्नेति / अविनाभूतमस्तीत्येतदपि दूषयति-विनाभूतेति / असत्वेऽपीति / अनिर्वचनीयत्वेपीत्यर्थः / किञ्च ब्रह्मव्याप्यस्येव सत्वे परमते कालादेः सत्वं न स्यात् तस्यावृत्तिब्रह्मणा सह दैशिकव्याप्त्यभावाकालादेः कालसंबन्धाभावेन तत्र वृत्यभावात् कालिकव्याप्त्यसंभवाच्चेत्याह-कालादाविति / पराभिमतार्थं दूषयित्वा स्वाभिमतार्थमुपसंहरति-तस्मादिति / एतेन ब्रह्मणि प्रपञ्चनिषेधेऽपि न तन्मिथ्यात्वसिद्धिरन्यत्र सत्वोपपत्तेरिति नवीनोक्तं निरस्तम् / यस्मिन् पञ्चपञ्चजना इति पूर्ववाक्ये प्रपञ्चस्य ब्रह्मण्येव प्रतिष्ठितत्वोक्तेब्रह्मणः सर्वोपादानत्वाच्च ततोऽन्यत्र प्रपंचस्य स्थित्यनुपपत्तेस्ततः प्रतिपन्नोपाधौं निषेधप्रतियोगित्वात्प्रपंचस्य मिथ्यात्वसिद्धिरिति भावः। तदुक्तम्-"नान्यत्र कारणात् कार्यं न चेत्तत्र त्वसद्भवैदि"ति / एवं श्रुतितः प्रपञ्चमिथ्यात्वं साधयित्वाऽनुमानेनापि तत्साधयितुं दृष्टान्तस्य श्रुक्तिरजतस्य मिथ्यात्वं निरूपयितुमुपक्रमते किञ्चेति / शुक्ती रजतभेदाग्रहादेब रजतार्थिनः प्रवृत्तिरित्यख्यातिवाद्येकदेशिनस्तन्मतं दूषयति-सा चेति / गौरवादिति / इष्टग्रहस्यैव प्रवर्तकत्वे संभवति तद्भदग्रहा
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy