SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 348 ' सटीकादतदीपिकायाम् संसारोऽपि परस्यास्तु गुणः सङ्गरवत्तव // 10 // अज्ञत्वमपि देहादेर्मालिन्यादस्तु भेदवत् / जीवानां चेश्वराभेदो नान्योऽतोऽस्तीति वाक्यतः // 11 // प्रतीयते ततो जीवब्रह्मणोर्न भवेद्भिदा। अतो जीवादिरूपेण परस्यानन्तता भवेत् // 12 // अप्रसक्तनिषेधस्ते ध्रवं तस्माद्धविष्यति / अश्रुतप्रतियोगित्वं कल्पनीयं परात्मनः // 13 // वाक्यभेदोऽपि दुर्वारो निषेधव्यतिरेकतः / यच्चोक्तं गुणगुण्यादिभेदोऽत्र प्रतिषिध्यते // 14 // न किञ्च नेति वाक्येनेत्येतत्तेऽत्यन्तदुर्वचम् / यतस्त्वया परं ब्रह्मानन्तसद्गुणमिष्यते // 15 // अभेदेऽपि गुणित्वं चेत् पारिभाषिकमेव तत् / शरीरं च शरीरी च . परमात्मेति तत्तथा // 16 // तस्माद्यत्पञ्चपञ्चेति प्राणादि वियदादि च / निरवद्यत्वश्रुतिविरोधात्परस्य संसारोऽनुपपन्न इत्याशंक्य तव मते रावणयुद्धा दिवत् सोऽपि गुणो भवत्वित्याह-संसारोऽपीति / एवं तर्हि नृसिंहादेरिव जीवस्य सवर्शत्वं स्यादित्यत आह- अज्ञत्वमिति / यथा श्यामदर्पणादिसंबन्धादवदात्तेऽपि मुखे श्याम त्वादियोग एवमनादिमलिनदेहयोगादेव निरवद्येऽप्यज्ञत्वादि मालिन्यमभिन्ने भेदवदविरुद्धमित्यर्थः। जीवेश्वराभेदे मानाभावादुक्तविधया न तदभेदसिद्धिरित्याशंक्यासिद्धया दूषयति-जीवानामिति / अत एकस्मिन् वस्तुतोनानात्वायोगात् कल्पितना. नात्वेनैवानन्ततया प्रतीयमानजीवाभेदपरवानन्तरूपमिति श्रुतिरिति द्वितीयं कल्पं परि. शेषयति - अत इति / ततश्च ब्रह्मनानात्वस्याप्रसक्तत्वादुक्तदोषस्तदवस्य इत्याहअप्रसक्तेति / किं च ब्रह्मनानात्वनिषेधे ब्रह्मणोऽश्रतप्रतियोगित्वं कल्प्यम् / किञ्चनेत्यस्य पृथनिषेधेन वाक्यभेदश्च स्यादित्याह-मश्रतेति / निषेधव्यतिरेकत इति / निषेधभेदादित्यर्थः। ब्रह्मणो ज्ञानानन्दादिगुणेभ्यो भेदनिरासायेयं श्रुतिरिति नवीनोक्तमनूद्य निराकरोति-यच्चेत्यादिना / आदिपदेन शरीरशक्तिभेदो गृह्यते-पारिभाषिकमेवेति / अभेदे ब्रह्मणः स्वात्मानं प्रतीव ज्ञानादिकं प्रत्यपि गुणित्वानुपपत्तेरिति भावः / तथेति / पारि भाषिकमित्यर्थः नानाशब्दस्य धर्मपरत्वायोगा "द्यस्मिन् पञ्चपञ्चजना आकाशन प्रतिष्ठित" इति पूर्ववाक्ये प्रसक्तप्राणादयो वियदादयश्चात्र निषिध्यन्त इत्याहतस्मादिति / किञ्चनेत्यादियोजनां नवीनोक्तार्थान्तरमपि निराकर्तुमनुवदति-यच्चेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy