SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ 347 तृतीयः परिच्छेदः योगात् किञ्चनशब्देनाविशेषेण निषेधनम् // 3 // अन्यथा तेऽप्रसक्तस्य प्रतिषेधो भवेद् ध्रुवम् / / विचित्रणव कार्येण तद्भेदस्यानुमेति चेत् // 4 // न, यतो मायिनश्चित्रं कार्य लोके प्रदर्श्यते / विश्वामित्रादियोगीशसृष्टिश्च विविधा स्मृता // 5 // अनन्तरूपमित्यादि वेदात्त दधीरिति / तत्किं स वेदस्तत्रैव विश्रान्तो वाऽन्यवस्तुनि // 6 // आये श्रुतिप्रमेयं तत् कथं वेदोऽपि वारयेत् / अन्यथा तत्कथं मानमन्यद्वा निविशेषतः // 7 // विकल्पो न क्रियावत्स्याद वस्तुनस्त्वेकरूपतः / एकस्मिन्नपि सद्भेदो यदि ते संमतस्तदा // 8 // जीवेनाचरितं किन्ते प्रतिकूल वदाधम / हिरण्यरावणादीनां वधो यद्वद् व्यवस्थितः // 9 // तद्वत्संसारमुक्तत्वव्यवस्था न भवेत् कुतः / ब्रह्मनानात्वमात्रपरिग्रहे तस्यासत्वात्परमते तन्निषेधायोग इत्याह-अन्यथेति / अत्र प्रसक्तपदस्य प्रतीत्यर्थत्वं मत्वा शंकते-विचित्रेणेति / एकस्मादेव मायिनो विचित्रकार्यदर्शनान्न तेन ब्रह्मभेदप्रसक्तिरिति दूषयति-न यत इति / किञ्च विश्वामित्रसौभर्यादेरेकैकस्यैव विचित्रकार्यस्रष्टत्वस्य स्मृतिषु प्रसिद्धेर्न विचित्रकार्यं कर्तृत्वभेदनियतमित्याह-विश्वामित्रेति / . 'अचिन्यमव्यक्तमनन्तरूपम्' इत्यादिश्रुतित एव ब्रह्म नानात्वप्रसक्तिरिति : शंकते-अनन्तेति / किमनन्तरूपमित्यादेब्रह्मनानात्व एव तात्पर्यमुतान्योति विकल्प्य .: आये तन्निषेधोऽनुपपन्न इत्याह--तत्किमित्यादिना / श्रुतितात्पर्यसिद्धस्य श्रुत्या निषेधे * तयोः परस्परविरोधादुभयोरपि प्रामाण्यं न स्यादित्याह--अन्यथेति / षोडशिग्रहणवद्विकल्पेन विरोधपरिहारमाशंक्याह - विकल्प इति / पृथिव्याद्यन्तर्यामिण औपाधिकभेदाभिप्रायेणानन्तरूपमित्यादिश्रतिः / नेह नानास्तीति श्रुतिस्तु स्वरूपैक्याभिप्रायेत्यविरोधमाशंक्य तद्देवमेव जीवब्रह्मभेदाभेदश्रुत्योरप्यविरोधापत्तेजीवस्यापि ब्रह्मताभ्यु पेयतामित्याह-एकस्मिन्निति / श्रुत्यर्थान्यथाकरणेन स्वयं नष्टः परान्नाशयतीत्यभि- प्रेत्याह - अधमेति / नन्वेवमपि जीवब्रह्मणोः संसारित्वव्यवस्थार्थमात्यन्तिकभेद आब· श्यक इति नेत्याह-हिरण्येति / हिरण्यकशिपुहन्तृत्वं नृसिंहस्यैव रावणहन्तृत्वं रामस्येति 'यथा व्यवस्थौपाधिकेन तथा जीवब्रह्मणोरपि संसारित्वादिव्यवस्थोपपत्तिरित्यर्थः /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy