________________ तृतीयः परिच्छेदः 343 पानुपपत्तेश्च / न हि ब्रह्मणः प्राधान्यादौ किञ्चिल्लौकिकं मानं विरुध्यते तथापि मृदादिवाक्यासंगतिरेव / तेन तस्य प्राधान्याद्यनुपपादनात्। समवायस्य च भेदाभेदस्य च निरस्तत्वेन धर्माणां संबन्धाभावादपि न ब्रह्मधर्मत्वम् / यदप्यद्वैतवाद्यभ्युपगतनिर्धर्मकत्वनिषेधाय संख्यादिकं श्रुतिविधत्त इति / तन्न, अद्वैतवादिनो ब्रह्मनिर्द्धर्मकत्वप्रसिद्धः श्रुतिमूलत्वात्। किं चाद्वैतवादिभिरप्यामोक्ष प्राधान्यादिकमभ्युपेयत एवेति तद्विधानं व्यर्थम् / न च तस्य वास्तवत्वं मुक्तिकालीनत्वं वा श्रुत्या प्रतिपाद्यत इति वाच्यम् / - अत्र वास्तवादिपदाभावात् श्रुतेस्तत्र तात्पर्ये च न किञ्चिन्मानं पश्यामः। प्रत्युत रुद्ररोदनादिवन्निष्प्रयोजनत्वात्तत्रातात्पर्यमेव / तस्मादेकमिति भेदनिषेधपरमेव / ... यत्त्वद्वितीयमित्यत्र बहुब्रीहिर्जघन्य इति कर्मधारय एवाम्युपेय इति / तदसत् / अघटो देश इत्यादावपि तदभावप्रसंगात / न च तत्र विवक्षानुसारात् तथा, तहि प्रकृतेऽप्युपक्रमादिलिङ्गताभावे श्रु तितात्पर्यावगमात् तथास्तु / किं च तव कर्मधारयासंभवादपि बहुव्रीहिरेव ग्राह्यः, ब्रह्मातिरिक्तचेतनाभ्युपगमे ब्रह्मणि द्वितीयत्वस्य सत्वात् / जगत्कारणस्यैव सत्यत्वावधारणाच्चेति भावः। एकत्वसंख्यादेब्रह्मण्यसंभवादपि न तत्परेत्याह-समवायस्येति / एकमिति श्रुतिनैकत्वादिविधिपरा किन्तु तद्विरोधिनिषेधपरेति परोक्तमनद्य दूषयति-यदपीत्यादिना / श्रुतिमूलत्वादिति निर्धर्मस्य ब्रह्मणो मानान्तरागोचरतया श्रुतिप्राप्तनिर्धर्मत्वस्य तयैव निषेधे परे विकल्पापात इति भावः। . ____ अद्वैतवादिमतनिरासाय धर्मविधानमित्येतदितोऽप्यनुपपन्नमित्याह-किञ्चेति / धर्मवास्तवत्ववाचकपदाभावेऽपि तस्य श्रुतितात्पर्यगोचरत्वात् वास्तवत्वमित्यत आहश्रतेरिति / निष्प्रयोजनत्वादिति / य एवं वेदाहं ब्रह्मास्मीति स इदं सर्व भवतीति अभेदज्ञानादेव मोक्षश्रवणात् द्वितीयाद्वै भयं भवतीति भेदज्ञनादनर्थश्रवणाच्चेति भावः। उपक्रमाद्यनुगुणत्वादुक्तदोषाभावाच्चाभेदपरमेवेदमित्याह-तस्मादिति / यत्तूक्तं कर्मधारये संभवति बहुव्रीहिरयुक्त इति तदनूद्यातिप्रसङ्गेन दूषयति----यत्त्वित्यादिना / अघटो देश इत्यत्र घटात्यन्ताभावस्य विवक्षितत्वात् बहुव्रीहिरित्याशंक्याद्वितीयमित्यस्यापि वैताभावात्मकब्रह्मणि तात्पर्यात् बहुव्रीहिरावश्यक इति दूषयति-न चेत्यादिना / - परमते जीवसजातीयस्य परस्य तदपेक्षया द्वितीयत्वान्न द्वितीयोऽद्वितीय इति कर्मधारयासंभवादपि बहुब्रीहिरेव युक्त इत्याह----किं चेति / परस्य जीवान्निकर्षाभावान्न 44