SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 342 सटीकाद्वैतदीपिकायाम् नामरूपसमानत्वम् / अतो न तस्य स्वगतभेदनिषेधकत्वम् / अद्वितीयशब्दोऽपि कर्मधारयो बहुव्रीहिर्वा / आद्य ब्रह्म द्वितीयान्यत्वेऽपि तृतीयं प्रथमं वा स्यात् / नान्त्यः प्रथमार्थत्वेन कर्मधारये संभवति जघन्यबहुव्रीहेरयोगादिति / तन्न। अस्त्वेकशब्दस्यानेकार्थत्वं तथापि शब्दार्थ इत्येव न ते प्रकृते ग्राह्याः, तथासति 'चित्रया यजेते'त्यत्रापि चित्रत्वं ग्राह्यं स्यात् / संभवति च चित्रत्वस्याप्यग्नीषोमीयपशुविशेषणत्वेन यागसाधनत्वम् / ___अथ तत्र स्त्रीत्वचित्रत्वयोविधाने वाक्यभेदः स्यादिति तहि प्रकृतेऽप्यनेकगुणविधाने स तुल्यः सतोऽपि प्राप्तत्वात् / fच केषाश्चिन्मानान्तरेण सिद्धत्वेन केषांचित तद्विरुद्धत्वेन च नान्यत्वादिगुणेषु तात्पर्य, येनाश्रुतं श्रुतं भवतीत्यादिना अद्वैत एवोपक्रमात मृदादि. दृष्टान्तस्तस्योपपादनाच्च। ____ अथोऽपक्रमेऽपि ब्रह्मणः प्राधान्याद्यभिप्रायेणे व तज्ज्ञानात् सर्वज्ञानमुपचर्यत इति चेत् न, असति बाधकेऽप्युपचारकल्पनेऽति प्रसंगात् कथं विति तदाक्षे त्वमपि विधेयं स्यात् तथा च वाक्यभेदापात इति शंकते-- -अथेति / सदेव सोम्येत्यनेनैव सद्रूपब्रह्मणः प्राप्तत्वात् तदुदेशेनान्यत्वादिविधाने वाक्यभेदापातस्तुल्य इति परिहरति-- तहाँति / केषाञ्चिदिति / अन्यत्वैकत्वयोः प्रत्यक्षानुमानसिद्धत्वात् साम्यस्य च न तत्समोऽस्तीत्यादिश्रुतिविरुद्धत्वादसहायत्वमपि न तावत् स्वकार्ये सहकारिराहित्यं अदृष्टादेः सत्वात् / न च चेतनान्तरसाहाय्याभावः तद् भोक्तृशेषभोग्यसृष्टौ तेषामपि सहकारित्वात् प्राथम्यमपि न तावत् प्रथमकालीनत्वं तस्याग्र आसीदिति पूर्ववाक्य एव सिद्धत्वाज्जीवानाभप्यनादितया तदपेक्षया तदनुपपत्तेश्च / नापि गुणोत्कर्षः निगुणत्वपराऽनेकश्रतिविरोधात् / प्राधान्यमपि स्वातन्त्र्यं तच्च यदि स्वेच्छया प्रवर्तमानत्वं तन्न जीवस्यापि तत्सत्वेन तदपेक्षयेश्वरस्य प्राधान्यायोगात् / नाप्यन्यानियम्यत्व तत् ईश्वरस्य सर्वनियन्तृत्वपरवाक्यसामर्थ्यादेव तत्सिद्धेरिति भावः। किञ्चोपक्रमविरोधादपि नान्यत्वादिषु तात्पर्यमित्याह-येनेति / येनाश्रुतमित्याद्यपक्रमोऽपि नाद्वैतनिष्ठ इति शंकते-अथेति / मुख्यार्थे वाधकाभावात् तस्याक्षेपादि. नोपपादितत्वाच्च नोपचरितार्थपरतेति परिहरति---नासतीति / ननु कथं न्विति नाक्षेपः किन्तु प्रश्नमात्रमिति तत्राह-----थापी ते / प्राधा याद्यनुपप दनादिति / यथा सोम्येत्यादिवाक्यस्य शब्दविशेषनित्यानित्यपरतया त्वया व्याख्यात. त्वात् मृत्तिकेत्येव सत्यमिति कारणस्यैव सत्यत्वं उपसंहृत्यैवं सोम्य स आदेश इति
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy