________________ 344 सटीकाद्वैतदीपिकायाम् न च धर्मतो निकृष्टस्यैव द्वितं यत्वम् / ब्रह्म च सकलसद्गुणाश्रय इति न द्वितीयमिति वाच्यं सजातीयान्यमाने द्वितीयशब्दव्युत्पत्तेः। अन्यथा समे क्वापि द्वितोयशब्दप्रयोगो न स्यात् - ननु सर्वज्ञद्वितीयत्वं निषिध्यत इति चेत, न, चेतनद्वितीयत्वातिरि. क्तस्य सर्वज्ञद्वितीयत्वस्य सिद्धयसिद्धयोस्तदयोगात / एतेन सम एव द्वितीयशब्दव्युत्पत्तरद्वितीय इति समाधिकनिषेध एवेति निरस्तम् / सर्वज्ञान्तराभावात् एकशब्देन निर्दोषत्वादिरूपेण प्रपञ्चेन ब्रह्मणः साम्यं विधीयत इति त्वदुक्तिव्याघाताच्च / सामान्यनिषेधे वाधके सत्येव विशेषविषयत्वस्य वक्तव्यत्वाच्च / ननु द्वितीयमात्रनिषेधो न संभवति द्वितीयाभावस्यैव द्वितीयस्य सत्वादिति चेत्, न, द्वितीयाभावस्याप्यात्ममात्रत्वस्यासकृदुक्तत्वात् / तस्मादेकादिशब्देन स्वगतात् स्वविलक्षणात्सजातीयाच्च यो भेदः स एव प्रतिषिध्यते। या तु श्रुतिरुदाहृता ‘एकोऽद्वितीयो भगवान् तत्सदृशोऽन्यो नास्ति"। या च स्मृतिः "ज्ञानानन्दाद्यभिन्नत्वादेकः सर्वोत्तमत्वतः। अद्वितीयो महाविष्णुः पूर्णत्वात् पुरुषः स्मृतः / भेदाभेदनिवृत्त्यर्थमेवशब्दोऽवधारकः // " इति / तत्र श्रुतिरनुकूलव स्मृतावप्यद्वितीय इति सजातीयमात्रभेदनिषेधो द्रष्टव्यः। भेदाभेदनिषेधे ज्ञानानन्दादीनां ब्रह्मणोऽत्यन्तभेदे ज्ञानानन्दाद्य द्वितीयत्वमित्यत आहन चेति / सम इति / द्वितीयं चक्षुरित्यादिप्रयोगो न स्यादित्यर्थः / सर्वज्ञापेक्षया द्वितीयत्वनिषधेन कर्मधारयोपपत्तिरिति शंकते----नन्विति / सर्वज्ञद्वितीयले सति तन्निषेध एवानुपपन्नः / असति च तस्मिन् सुतरां तदनुपपतिरसतो निषेधायोगादित्याह--नेति / प्रतियोगिनोऽसत्वादेव समाधिकनिषेधपरत्वमप्ययुक्तमित्याह-एतेनेति / समाधि केति / समनिषेधेऽर्थादधिकविषेध इति भावः / समनिषेधपरत्वाभिधानं स्ववचनविरुद्धं चेत्याह--एकशब्देनेति / चेतनब्रह्मप्रतियोगिकं द्वितीयत्वं जीवनिष्ठं ब्रह्मणि निषिध्यतामित्याशंकायामाह---सामान्येति / सामान्येन श्रुताद्वितीयपदस्य चेतनमात्रप्रतियो. गिकद्वितीयत्वनिषेधपरत्वे सम्भवति गौरवेण तद्विशेषप्रतियोगिकद्वितीयत्वनिषेधपरत्वकल्पनायोगादित्यर्थः। एकमेवेत्यादिवाक्यस्य द्वैतमात्रनिषेधपरत्वमनुपपन्नं द्वैताभावेन सद्वितीयत्वस्यावश्यकत्वादिति शंकते-नन्विति / आरोपितप्रतियोगिकाभावस्याधिष्ठानमात्रताया उपपादितत्वान्न तेन सद्वितीयतेत्याह-न द्वितीयेति / एकमेवेत्यादेद्वैतमात्रनिषेधकत्वाभावे परेण स्वग्रन्थे श्रुतिस्मृतिसंवाद उक्तस्तमनूद्यान्यथयति-यत्त्वित्यादिना / अद्वितीय इति सजातीयभेदमात्रनिषेध इति /