________________ 340 सटोकाद्वतदीपिकायाम् वाचारभ्भणश्रुतेः द्वैताभिप्रायनिरास: यत्वर्वाचीनमतं वागिन्द्रियजन्यं नामधेयं प्राकृतादिशब्दो विकारः अनित्यं मृत्तिकेत्यादिसंस्कृतनामधेयं सत्यं नित्यमित्यर्थ इति / तदसत् / यथा सोम्यकेन मृतपिण्डेन सर्व मृन्मयं विज्ञातं स्यादित्युपक्रमाननुगुणत्वात्। न च तत्रापि भाषादिशब्दपरिज्ञाने तत्फलं तच्चाधिकं च सार्वत्रिकव्यवहारादिकं संस्कृतज्ञानात भवतीत्युच्यत इति वाच्यम् / एकेन मृत्पिण्डेन मृन्मयमित्यादिशब्द विरोधात्। संस्कृततज्ज्ञानतत्फलवाचकशब्दानां तत्राभावाच्च / संस्कृतशब्दाल्लौकिकैर्व्यवहारासंभवात्। भाषापरिज्ञाने सर्वेण व्यवहारसंभवाच्च। किंचंतल्लोकसिद्धत्वान्न श्रुत्या प्रतिपाद्यम् / यत्त, मृद्ज्ञानेऽपि घटादिसंशयदर्शनात न त्वदभिमतवाक्यार्थोऽपि संभवतीति। तन्न / स्वरूपपरिज्ञानेऽपि कल्पितभेदवद्विकारसंशयस्योपपत्तेः मृत्तिकेत्यस्य शब्दपरत्वे प्रमाणाभावात् / नामधेयपदस्यानुषङ्गगौरवाच्च / किञ्च सत्यशब्दोऽपि परमार्थत्व एव रूढः अतः संस्कृतस्यैव परमार्थत्वविधौ भाषादेमिथ्यात्वं श्रुत्यभिमतं स्यात् तच्च तवानिष्टम् / अस्य परोक्तार्थं दूषयितुमनुवदति-यत्त्विति / परमते प्राकृतशब्दस्यापि सत्वात्ततो वैषम्यमाह-नित्यमित्यर्थ इति / परोक्तार्थपरत्वे उपक्रमे श्रुतस्य मृद्विज्ञानात तद्विकारस्वरूपपरिज्ञानस्यानुपपादनात्तदेकवाक्यत्वविरोध इति दूषयति-तदसदिति / संस्कृतशब्दपरिज्ञानात् व्यवहारभूयस्त्वमेवोपक्रमार्थ इत्याशंक्याश्रुतकल्पनापातान्मैवमित्याह - न च तत्रापीत्यादिना / फलभूयस्त्वमपि नास्तीत्याह-संस्कृतेति / सस्कृतपरिज्ञाने सार्वत्रिकव्यवहारो भवतीत्यस्यापूर्वत्वाभावादपि न श्रुत्यर्थतेत्याह-किं चेति / यथाश्रुतेऽर्थेऽप्यनुपपत्तिमनूद्य परिहरति-यत्त्विव्यादिना / नामधेयमित्यस्य मृत्तिकेति पदेनाप्यन्वयात् तस्य शब्दपरत्वमित्यत्राह-नामधेयेति / न च तवाप्येवकारानुषंगस्तुल्य इति वाच्यम् वाचैवारम्भणमिति त्वयापि वक्तव्यत्वादितरथा संस्कृतपदानामपि वाचारम्भणसत्वाद् विकारत्वप्रसंगादिति शब्दानुकरणरूपत्वे मृदादिपदानामनित्यत्वप्रसंगाच्च। न च मृत्तिकादिपदानां विवक्षितत्वाददोष इति वाच्यम् / आदिपदाश्रवणात् / ननु निपातानामनेकार्थत्वादाद्यनेतिपदेन वाचारंमणेतरपदानि संगृह्यन्त इति चेन्न। प्राकृतभाषाप्रबंधादेरपि तत्तद्व्याकरणादिसापेक्षत्वेन वाङ्मात्रेणानारब्धत्वात् तस्यापि संग्रहापत्तेरिति भावः / किञ्च सत्यपदेन नित्याभिधाने लक्षणाप्रसंगामुख्यार्थ एव ग्राह्यः / स च तवानिष्ट इत्याह-किं चेति / किं च येनाश्रुतमित्यादिनकविज्ञानात् सर्वविज्ञानं प्रतिज्ञाय