________________ तृतीयः परिच्छेदः वाचारंभणश्रुत्या प्रपञ्चमिथ्यात्वम् तत्र च "यथा सोम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्यादि"त्या. दिश्रुतिर्घटादिसत्तानिराकरणेनोपादानमृदभेदनिरूपणद्वारा ब्रह्माभेदं निरूपयन्ती मानम् / तत्र हि कथं मृज्ज्ञानात्तद्विकारपरिज्ञानमदर्शनादित्याशङ्कय न हि घटादिस्वरूपं मृदो भिद्यते किन्तु सैव, अतस्तज्ज्ञानमेव तज्ज्ञानमित्यभिप्रेत्य श्रुतिघंटादेर्मुद्धदं निराकरोति "वाचारम्भणमित्यादिना / विकारो घटादिः वाचारम्भणं आरभ्यत इत्यारम्भणं वाचा व्यवह्रियमाणघटशरावादि वागालम्बनमेवेति यावत् / एवकारश्च वाक्यशेषे श्रुनोऽनुषज्यते। ननु घटोऽस्तीति प्रतीयमानः कथं शब्दालम्बनमात्रमिति तत्राह- नःमधेयमिति। अस्तीति व्यवहार एव न त्वस्तित्वमस्तीत्यर्थः। ततः कारणमेव सत्यमित्यभिप्रेत्योपहिरति -मृत्तिकेति / इतिहेतौ प्रकारे वा, तदुक्तं स्कान्दे ब्रह्मदेवसंवादे-- उत्पत्तिश्च विनाशश्च तथैवार्थक्रिया अपि। नामरूपविशेषश्च सर्व भ्रान्त्या प्रसिध्यति / / अतः सर्वविकारश्च वाचा केवलमास्तिकाः। अस्तीत्यारभ्यते नामधेयमात्रं हि तत्सदा // प्रातीतिकेन रूपेण विकारोऽसत्य एव हि। कारणाकार एवास्य सत्यः साक्षात् सदा सुराः // इति / तिरिक्त इति मते कथं तत्सिद्धिरित्यत आह -मतान्तर इति / परमतात्पर्येणाखण्डवस्तुपरतया श्रुत्या न्यायोपोद्वलितावान्तरतात्पर्येण द्वैतनिषेधसिद्धिरित्यर्थः। __ एवं सामान्यतः प्रपञ्चसत्तानिषेधे वेदान्तानां प्रामाण्यमुपपाद्य विशेषतस्तद्विषयवाक्यान्युदाहृत्य तेषां स्वाभिमतमर्थं दर्शयति -तत्र चेत्यादिना / मृभेदमिति। मृदो भेदेन सत्वमित्यर्थः / वागालम्बनमेवेति / घटशरावाद्यपुनरुक्तव्यवहारमात्रं न तु घटादिस्वरूपमपि सत्यमित्यर्थः / वाक्यशेष इति / मृत्तिकेत्येवेत्यत्रेत्यर्थः / न चानुषङ्ग एवान्याध्य इति वाच्यम्। घटादिसत्त्वनिराकरणपरस्पास्य वाक्यस्य तदाकांक्षत्वादस्य घटादिसत्त्वनिराकरणपरत्वाभावे मृद्ज्ञानात् तद्विकारज्ञानानुपपादनेन यथा सोम्येत्यनेनैकवाक्यत्वायोगाद्वैय्यापत्तिरिति भावः / न त्वस्तित्वमिति / सद्व्यवहारस्याधिष्ठानसत्तयैवोपपत्तेनं तदतिरिक्तमस्तित्वमस्तीत्यर्थः / इतिहेंताविति / यस्मात् कार्यस्य कारणमेव सत्वरूपं तस्मात् तज्ज्ञानमेव सर्वज्ञानमित्यर्थः / प्रकारे वेति / कारणाकार एव सत्यो न कार्याकार इत्यर्थः / उक्तार्थे ब्रह्मगीतावचनं संवादयति-तदुक्तमिति /