________________ सटाकाद्वतदीपिकायाम् विकारश्च सर्वो मिथ्येव तस्य श्रुत्या निषिद्धत्वात् द्वैतमिथ्यात्वे-आक्षेपः समाधानं च / ननु श्रुत्या स्वस्वविषयप्रमाणयोग्यतादीनां स्वप्रामाण्योपजीव्यसत्वानां निषेधायोगात् न सकलद्वैतनिषेधसिद्धिरिति चेत्, न, शब्दस्य प्रामाण्ये हि प्रमेयस्याबाधितत्वरूपा योग्यता तन्त्रं सा चात्र सदात्मकब्रह्मस्वरूपमेवेति न तत्सत्तया द्वैतसत्यता। न तु स्वस्थ स्वविषयप्रमाणस्य वाऽबाधितत्वं अति. प्रसङ्गात् गौरवाच्च / सदन्यस्यापि शब्दस्यार्थक्रियायोग्यस्वरूपमात्रेण प्रामाण्योपपत्तेश्च। स्वप्न आत्मविषय शब्दानां प्रामाण्यदर्शनाच्च स्वप्नशब्दश्वासन्नेव, उत्थितस्य श्रुक्तिरजत इव तदसत्वानुभवात् / प्रपञ्चप्रत्यक्षादिकं च निषेधशेषमेवेति न सकलनिषेधे तात्पर्यानुपपत्तिः विपरीतशङ्का चानुपयोगासंभवपराहता। श्रुतिश्चानवकाशा सत्यमेव निषेधं बोधयति श्रुतितात्पर्यगोचरनिषेधश्च सत्यज्ञानानन्दब्रह्मवेति नार्वाचीनोक्तदोषः मतान्तरे चावान्तरतात्पर्यात् प्रपञ्चनिषेधसिद्धिः / मोहो यस्मात् प्रकाशात्तस्मिन् अनावृतप्रकाश इत्यर्थः / मरुमरीचिकोदकादिवदधिष्ठानादतिरिक्तसत्ताशून्यत्वे हेतुमाह-वेदमूद्धेति / 'नेह नानास्ति किंचने" त्यादिवेदान्तवाक्यैस्तत्सत्तानिषेधादित्यर्थः / श्लोकाथं प्रपञ्चयति, विकारश्चेति / श्रुतेस्तद्ग्राहकमानस्याकांक्षायोग्यतादेस्तभेदस्य चाबाधितत्वं न तत्र प्रयोजकमिति परिहरति-न शब्दस्येति / न हि योग्यतयैव द्वैतापत्तिरित्याहसा चेति / शब्दादेरेवाबाधितत्वस्य तन्त्रत्वेऽनाप्तवाक्यतत्प्रमाणयोः परमतेऽबाधितत्वात्तद्वाक्यमपि प्रमाणं स्यादित्यभिप्रेत्याह--अतिप्रसंगादिति / प्रमेयस्याबाधितत्वमपि तन्त्रमित्याशंक्याह-गौरवादिति / सद्विलक्षणत्वे शब्दस्य बाष्पधूमवत्प्रामाण्यानुपपत्तिमा शंक्य वैषम्यमाह--सदन्यस्ये ते / सत्त्वस्य व्यतिरेकव्यभिचारमप्याह--स्वप्न इति / ___ तथापि प्र ञ्चसत्ताग्राहिप्रत्यक्षविरोधान्न तस्य निषेध इत्याशङक्य तस्य रजतप्रत्यक्षवन्निषेधापेक्षितप्रसक्तिरूपत्वेन तदनुकूलत्वान्न विरोधितेत्याह--प्रपञ्चेति / निषेधकश्रुतिरेव भेदग्राहिप्रत्यक्षशेषार्था किं न स्यादित्यत आह-विषरीतेति / विधिरूपप्रत्यक्षे निषेधवाक्यार्थज्ञानस्य कथमप्यनुपयोगान्निषेधस्यान्यतोऽसिद्धतयाऽनुवादायोगाच्चेति भावः / तहि चोदनाभागवद्वैतनिषेधश्रुतिरपि कल्पितविषयास्त्वित्याशंक्य तस्याधिकारसिद्धिद्वाराऽद्वैतप्रतिपत्तिशेषत्वात् कल्पितविषयत्वं युक्तं द्वैतनिषेधश्रुतेरनन्यशेषतया स्वार्थपर्यवयित्वात् तदर्थो निषेधः सत्य एवेत्यभिप्रेत्याह-श्रुतिश्चेति / निषेधेनैव द्वैतापत्तिरिति परोक्तं दोषं परिहरति--श्रुतितात्पर्येति / द्वैतनिषेधोऽधिष्ठाना