________________ तृतीयः पारच्छेदः 337 मतेऽसिद्धं जडत्वोपाधिदुष्टं च। यत्वाचार्याणामभिन्ननिमित्तोपादानानुमाने सुखादिदृष्टान्तः साध्यविकल इति। तदसत् / अन्तःकरणविशिष्टस्यैव कर्तृत्वात् उपादानत्वाच्च / यत्त द्रव्योपादानत्वादकत्रिति / तन्न। गुणोपादानस्य तत् कर्तृत्ववद्द्रव्योपादानस्यापि श्रुत्यादिभिः कर्तृत्वांगीकारे बाधकाभावात् / अत एव कर्तृत्वादनुपादानत्वमपि निरस्त, चेतनस्यानुपादानत्वे घटादौ सत्ताद्यननुभवप्रसङ्गाच्च / तस्माद्विश्वस्य कार्यस्य ब्रह्मोपादानमव्ययम् / कर्तृत्वश्रुतितन्मूललिंगाभ्यामिति सुस्थितम् // यदि सुखविमुखोऽयं कारणं स्वेच्छया यत्किमपि वदति कामं कीर्तयत्वात्मदग्धः // श्रुतिमतनिरतानां न्यायमागें स्थितानां नरहरिरयमेकः केवलं कारणं नः // 2 // "विकृतिरपि मुरारे त्वय्यलब्ध्वात्मसत्तां ___ स्फूरतिमरुमरोचौ वारिराशिः पुरीव / वियति, विविधरूपा व्यस्तमोहप्रकाशे निरवधिसुखसिन्धौ वेदमूर्धापवादात् // " इच्छादेः संपिण्डितोभयधर्मत्वस्य निरूपितत्वाज्जीवोऽपि तदुपादानमित्यभिप्रेत्याह-- तदसदिति / यत्त्वित्यादिः स्पष्टार्थः / ब्रह्मणो जगदुपादानत्वं तत्कर्तृत्वं चोपसंहरति श्लोकेन-तस्मादिति / अव्ययं निर्विकारं परमाण्वादिकारणत्वस्य युक्याभासैरुत्प्रेक्षितत्वात्परमपुरुषार्थिना न तच्छ्रद्धेयं; किन्तु श्रुतितन्मूलयुक्तिसिद्धब्रह्मकारणत्वमेवेत्यभिप्रेत्याह- यदोति / आत्मना ईश्वरेण दग्धो वंचितः / अत एव सुखविमुखः सुखरूपब्रह्मावाप्तेः पराङमुखः कश्चित्तार्किकः स्वेच्छ्योत्प्रेक्षामात्रेण विश्वकारणं यत्किंचिद्यदि वदति कामं यथेष्टं वदतु प्रेक्षावता तद्भषणे दूषणे वा न यतितव्यम् / यतः श्रत्युक्ते ब्रह्मभावरूपपुरुषार्थे निरतानां तदनुगुणन्याययुक्तं पन्थानमास्थितानां नो वैदिकानामस्माकं नरसिंहाकारविग्रहोपलक्षितब्रह्मैव कारणं जगत उपादानं कर्तृचेत्यर्थः / उपादानकोरुपादानस्य च भेदवारणायैकः केवलम् इत्युक्तम्। भेदाभेदमतेऽपि ब्रह्मणो जगदुपादानकर्तृत्वात् ततो वैषम्याय प्रपंचस्य मिथ्यात्वं प्रतिजानीते--विकृतिरिति / विक्रियमाणं जगदित्यर्थः / अलब्धात्मसत्तेति / स्वतः सत्तारहितेत्यर्थः / वियति पुरोव गन्धर्वनगरवदित्यर्थः / व्यस्तमोहेति / विशेषेणास्तो निवृत्तो