SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 335 तस्यापि सिद्धिरिति चेत् / सत्यमाचार्यैरेतदुक्तं तच्छ तिसिद्धार्थेऽसंभावनानिराचिकीर्षया, अनुमानमात्रस्याप्रयोजकतमा असाधकत्वात् / किञ्चाभिन्ननिमित्तोपादानत्वस्थ गौरवेण व्यापकताऽनवच्छेदकत्वान्न तेन रूपेणानुमितिः घटादावपादानकर्तृभेदस्य प्रत्यक्षसिद्धत्वात् बाधव्यभिचारयोरन्यतरप्रसङ्गश्च / एतेन घटादेश्चेतनोपादानत्वनिश्चयदशायां चेतनोपादानं सकर्तृकं कार्यत्वादित्यनुमानाल्लाघबसहकृतात तदेकत्वसिद्धिरिति परस्तम् घटोपादानस्य कुलालात्मनश्व भेदप्रत्यक्षविरोधेन तदभेदानुमानायोगात् बाधिते लाघवानवतारात्। तदभेदनिश्चयस्तु श्रुत्या जीवपराभेदनिर्णय एव भवति ब्रह्मस्वरूपातिरि. क्तजीवरूपेण तस्या सर्वगतत्वात् / ब्रह्मण उपादानत्वप्रतिपादकश्रुतिविरोधेन जीवस्य तदयोगाच्च श्रुत्या च जीवपराभेदनिश्चयः क्षित्याधुपादानकोरभेदनिश्चयं विना न संभवति महावाक्यस्थ तदादिपदः प्रकृततदभेदस्यैव परामर्शात् / न चानुमानादेव जीवपराभेदनिर्णयः प्रत्यक्षविरोधात, 'य आत्मनी' त्यादिभेदश्रुतिविरोधाच्च / लाघवमात्रेण वस्तुतत्वनिर्णयेऽतिप्रसङ्गस्योतत्वाच्च / तस्माद्वियदाधुपादानकर्बभेदस्य मानान्तराबाधिततया श्रुतिसामर्थ्यात् तदभेदेऽवगते तद् दृदीकरणाय दृष्टान्त प्रदर्शनमनुमानवाक्यमित्याचार्याभिप्रायः / जीवेश्वराभेदे अनुमानम् अथवाऽभेदेऽप्यनुमानमस्तु / न च बाधः श्रुतिप्रामाण्यभंगप्रसंगतर्केण नन्विति / श्रुत्युपजीवितदनुमानमिति परिहरति - सत्यमिति / कार्यत्वस्यैवोपादानकर्षभेदेन व्याप्त्यभावादपि न ततस्तत्सिद्धिरित्याह-किं चेति / अन्यतरप्रसंगश्चेति / घटादेः पक्षत्वे बाध. अपक्षत्वे च व्यभिचार इत्यर्थः। उपादानकर्बभेदस्याव्यापकत्वेऽपि घटादि चेतनोपादानकं तदनुविद्धकार्यत्वादित्यनुमानाच्चेतनोपादानत्वे निश्चिते पुनः कार्यत्वहेतुना कर्ता सिध्यन् तदभेदेनैव सिद्धयतीत्याशंक्याह-एतेनेति / ___ कुलालशरीरावच्छिन्नस्य घटोपादानाद्भेदनिश्चयेऽपि तत्स्वरूपस्य सर्वगतस्य मृदाद्यवच्छिन्नत्वात्तदभेदनिश्चयः संभवतीत्याशंक्याह- तदभेदेति / तर्हि श्रुत्या जीवपराभेदनिश्चये सत्युक्तप्रकारेणोपादानकर्बभेदसिद्धिरित्याशंक्य तथा सत्यन्योन्याश्रयापात इत्यभिप्रेत्याह-श्रुत्या चेति / प्रकृततदभेदस्यैवेति / तदैक्षत बहुस्यामिति प्रकृताभिन्ननिमित्तोपादानस्यैव तत्पदार्थत्वादिति भावः। शास्त्रमनुपजीव्य केवललाघ. वाद् वस्तुतत्वनिर्णये कल्पान्तरीयकुलालादेरप्येकत्वापात इत्याह-लाघवमात्रेणेति / तहि आचार्य: केनाभिप्रायेणानुमान मुक्तमित्यत आह-तस्मादिति / मानान्तराबाधिततयेति भेदप्रत्यक्षस्यौपाधिकभेदविषयतयाऽन्यथोपपत्तिरिति भावः / आचार्यैः कथाङ्गतयैतदनुमानं प्रयुक्तमित्यभिप्रेत्याह-अथवेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy