________________ सटीकाद्वैतदीपिकायाम् ईशकृतिनिरासः ___ कामश्रुतिबलाद् बहुभवनेच्छामासस्त्वविद्यावृत्तिरूपोऽस्तु। नामरूपे व्याकरवाणोति श्रुतिस्तु ज्ञानविषया / सेयं देवतैक्षत हताहमिमास्तिस्रो देवता अनेन जीवनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी'ति ज्ञानाकारस्यैव तया ऽभिलापात् / तदात्मानं स्वयमकुरुते"ऽति चात्मानं प्रपञ्चरूपेण जनयामासेति दर्शयति / न तु कृतिमत्त्वं उक्तदोषात् / तस्मान्न ब्रह्मसृष्टि: कृतिसाध्या, जीवाकर्तृकत्वात् ब्रह्मवत्। तदिच्छावच्च, अन्यथाऽनन्तकृतिकल्पनागौरवात् / तदुक्तम् ‘वीक्षणमात्रसाध्यत्वाद् वियदादि वीक्षितं हिरण्यगर्भद्वारा वीक्षणाधिकप्रयत्नसाध्यत्वाद्धौतिक स्मितमि"ति। "आत्मन आकाशः संभूतः" "तदक्षत तत्तेजोऽसृजतेत्याद्याश्रुतिरत्र प्रमाणं, पञ्चम्या उभयकारणार्थत्वादुभयस्यात्रापेक्षितत्वात् ईक्षणवत्करणस्य कर्तृत्वात्। श्रुत्यन्तरेण सामिविवेके वणितन्यायेन च नित्यनाने सिद्ध क्षित्यादिक सकर्तृकं कार्यत्वात् घटादिवदिति लाघवसहकृतानुमानादपि तत्सिद्धिः तदन्यस्यासंभवात् / ___अत एव कर्तृत्वं न श्रुत्यर्थः, किन्तूपादानकर्बभेद एवानन्यलभ्यः श्रुत्यर्थ इति सिद्धान्तः। विवरणाचार्योक्तरय अभिन्ननिमित्तोगदानानुमानग्याभिप्रायः ननु सर्व कार्यमभिन्ननिमित्तोपादानकं कार्यत्वादात्मगुणवदित्याचा-नुमाना न च व्याकरवाणीति कृतिसाध्यत्वस्यैव तद्विषयतयाऽभिलापात् कृतिरभ्युपेयेति वाच्यम् / उक्तविधण कृतेरसंभवेनोत्पाद्यत्वस्यैव तदर्थत्वादिति भावः / प्रपञ्चरूपेणेति / 'ततो वै सदजायते'त्युक्तसृष्टिं अकुरुतेत्यनूद्य तदात्मानमिति तादात्म्यमात्रस्य प्रतिपादनादिति भावः / तकितेऽर्थे प्रयोगमाह--तस्मादिति / ब्रह्मसृष्टिरीक्षणमात्रसाध्येत्यत्र वीक्षितमेतस्य पंचभूतानी''त्येतद्व्याख्यातृव्यासाश्रमवचनसंचारमाह-तदुक्तमिति / यदुक्तमुपादानस्य ब्रह्मणः कर्तृत्वे न मानमिति तत्राह-आत्मन इति / तदैक्षत बहुस्यामित्यादिनोपादानत्वमेव प्रतीयते न तु कर्तृत्वमित्याशंक्याह-ईक्षणवदिति / ___न हि द्रष्टुर्दष्टेविपरिलोपो विद्यत" इति श्रुत्या प्रथमपरिच्छेदोक्तन्यायेन च नित्यज्ञाने सिद्धे क्षित्यादौ व्यभिचारनिश्चयासंभवेन कार्यत्वस्य ज्ञानवज्जन्यत्वेन घटादौ व्याप्तिग्रहसंभवादनुमानादपि तत्सिद्धिरित्याह - श्रुत्यन्तरेणेति / यदुक्तं कर्तृत्वस्य श्रुत्येकगम्यत्वेऽद्वैतक्षतिरिति तदपि नेत्याह-अत एवेति / अनुमानसिद्धत्वादित्यर्थः / उपादानकर्बभेदस्याप्यनन्यलभ्यत्वमयुक्तं विवरणाचार्यैस्तत्राप्यनुमानाभिधानादिति शंकते-.