________________ तृतीयः परिच्छेदः 331 कतृत्वे नवोकृताक्षेपः नवीनस्तु किमिदं ब्रह्मणः कर्तृत्वम् न तावद् भ्रमाधिष्ठानत्वमात्रं तस्यैवोपादानत्वशब्दार्थत्वात् ब्रह्मोपादानं निमित्तमिति च सामानाधिकरण्यायोगात् तदक्षत नामरूपे व्याकरवाणीति श्रुत्यनुपपत्तेश्च / न हि चैतनोऽचेतनो वा स्वस्मिन्नारोपितं संकल्प्य करोति / ___ अत एव नाध्यासद्रष्टुत्वं कर्तृत्वम् / भ्रान्तस्य प्रेक्षापूर्वमारोपितकर्तृत्वाभावात्। ब्रह्मगो भ्रान्तत्वेन जगत्कर्तृत्वाभावापाताच्च / न चेष्टापत्तिः श्रुत्यादिविरोधात् / कर्तृत्वस्य विकल्प्य निरासः किंच पक्षद्वयेऽपि वैषम्यादिपरिहाराय कर्मापेक्षोक्तिविरुध्येत अधिष्ठानस्वादिना तदप्रसक्तेः / नापि मायाविवत् व्यामोहकत्वमात्रं, नामरूपे व्याकरवाणीति श्रुत्यनुपपत्तेः। नहि मायावी गजादिकं करवाणीति संकल्प्य करोति किन्तु दर्शयामिति संकल्प्य दर्शयति / किं च पक्षद्वयेऽपि जन्मादिसूत्रेऽर्थलब्धसर्वज्ञत्वस्फुरणार्थ शास्त्रयोनित्वसूत्रमिति मतं भग्नं स्यात् भ्रमाधिष्ठानत्वादिना सार्वज्ञालाभात् / नाप्युपादानगोचरप्रयत्नवत्त्वं कर्तृत्वं तदा कल्पितत्वायोगात्। न हि औपनिषदवादोक्तन्यायेनालौकिककृत्यनुपस्थितिदशायां क्षित्यादावेव व्यभिचारनिश्चयादित्यर्थः / उपादानब्रह्मणः कर्तृत्वं निर्वक्तुमप्यशक्यमिति परेणोक्तमित्याह-नवीन स्त्विति / किन्तु भ्रमाधिष्ठानत्वं ब्रह्मणः कर्तृत्वं, तद्रष्टुत्वं वा अन्यव्यामोहकत्वं वा, उपादानगोचरकृतिमत्त्वं वा, तद्गोचरचिकीर्षावत्वं वा, तदपरोक्षज्ञानवत्वं वा, कारकान्तराप्रयोज्यत्वे सति तत्प्रयोक्तृत्वं वा ? नाद्य इत्याह-न तावदिति / अध्यासस्याधिष्ठानगतेक्षणाद्यनपेक्षत्वात्तदभिधायकश्रुत्यसामञ्जस्यं चेत्याह-तदैवतेति / द्वितीयं दूषयति--अत एवेति / अतः शब्दार्थमाह-भ्र न्तस्येति / श्रुत्यादिविरोधादिति / तदैवत "तत्तेजोऽसृजत" "प्रकृति स्वामवष्टभ्य विसृजामि पुनः पुनरि"त्यादिश्रुतिस्मृतिविरोधादित्यर्थः / उक्तकल्पद्वये साधारणं दोषमाह-किञ्चेति / कर्मापेक्षोक्तिरिति / वैषम्यनण्ये न सापेक्षत्वातथाहि दर्शयतीति सूत्रेणेति शेषः। तदप्रसक्तेरित्ति वैषम्याद्यप्रसक्तरित्यर्थः। तृतीयं निराकरोति-नापीति / सिंहावलोकनन्यायेनाद्यपक्षयोर्दूषणान्तरमाह-किञ्चेति / / ___ जन्माद्यस्य यत इति सूत्रोक्तसर्वकर्तृत्वानुपपत्तिलब्धसर्वज्ञत्वदायि तृतीयसूत्रमिति भाष्यकारोक्तमयुक्तं स्यादित्यर्थः / तत्र हेतुमाह--भ्रमेति / चतुर्थमसंभवेन दूषयति-नापीति / अद्वितीयब्रह्मणि सृष्टे: पूर्व कृतेरेवासंभवान्न