________________ 332 सटोकावतदीपिकायाम् घटादिकं कुलालेनेव कल्पितं रूप्यादिभ्रान्तेन क्रियते / अन्ये तु कृतिमत्वं यदि कर्तृत्वं सा कि नित्यानित्या वा ? नाद्यः तव मते तदभावात् / न द्वितीयः शरीरादिकं विना तदयोगात तदनवस्थाप्रसङ्गाच्च कार्वमात्रस्यैव कृतिजन्यत्वात् / एवमुपादानगोचरचिकीर्षावत्त्वमपरोक्षज्ञानवन्वं वा तदिति निरसनीयं तयोरतिप्रसक्तत्वाच्च ब्रह्मणो ज्ञानरूपस्य ज्ञानवत्त्वाभावाच्च / एतेन कारकान्तराप्रयोज्यत्वे सति सकलकारकप्रयोक्तत्वं कर्तृत्वं, तच्च सर्वशक्तिब्रह्मणः संभवतीति निरस्तम्। कारकप्रयोक्तृत्वं हि तद्वयापारानुकलकृतिमत्वं तच्च न संभवतीत्युक्तं तस्मात् ब्रह्म न कर्तृ उपादानत्वात् संमतवदिति / सिद्धान्तिमते कर्तृत्वनिर्वचनम् अत्रोच्यते। कार्यानुकूलज्ञानवत्त्वं ज्ञानवत्वे सति कारणत्वं वा कर्तृत्वम् / अनुकूलत्वं च परंपरयौ घटादिजनककुलालादिज्ञानस्य विश्वनिर्माणहेत्वनादिज्ञानस्यापि तुल्यम्। उदासीनज्ञानं च नैवं तत्प्रागभावे सत्यपि कार्योदयात विश्वनिर्मातृज्ञानं च घटादिनिर्मातृज्ञानवज्जनकादात्मनोऽविद्यया भिन्नम / मुक्त च न कर्तृत्वमात्मनः / अत एवेश्वरस्यापि कर्तृत्वमाविद्यकमिति सिद्धान्तः / न चादृष्टाद्वारकोपादानगोचरज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वं, व्यर्थविशेषणत्वात्, न चैवं जीवनयोनिकृतिसाध्ये प्राणव्यापारे जीवनस्य कर्तृत्वप्रसंगः / तद्घटितं कर्तृत्वमित्यपरैरुक्त तदाह- अन्ये त्विति / तदनवस्थाप्रसंगादिति / तथा च प्रलयेऽपि कृतिमाला स्थादिति भावः। नित्यानित्यविकल्पप्रयुक्तदोष पञ्चमषष्ठयोरप्यतिदिशति-एवमिति / उदासीनेऽपि तयोः सत्वादतिव्याप्तिश्चेत्याह--तयोरिति / षष्ठे दोषान्तरमाह -ब्रह्मण इति / ब्रह्मणि कृत्यनिरूपणादेव सप्तमोऽपि निरस्त इत्याह-- एतेनेति / अद्वितीयब्रह्मणो जगत्कर्तृत्वलक्षणाद्यभावमुक्त्वा वैपरीत्ये मानं दर्शयन्नुपसंहरति--तस्मादिति / संमतत्वादिति / अविद्यावदित्यर्थः / सिद्धान्ते जीवब्रह्मसाधारणकर्तृत्वलक्षणं दर्शयन्नुक्तदोषं परिहरति--कार्यानुकूलेव्यादिना। ___आद्यलक्षणे-कार्यानुकूलत्वं कार्यतद्गोचरचिकीर्षान्यतरकारकत्वं विवक्षितं, तच्च जीवेश्वरज्ञानयोस्तुल्यमित्यभिप्रेत्याह-अनुकूलत्वं चेति / उदासीनज्ञानस्य कार्याननुकूलत्वान्न तत्रातिव्याप्तिरित्याह-उदासीनेति / यदुक्तं ज्ञानरूपस्य ब्रह्मणो न ज्ञानवत्त्वमिति तत्राह-विश्वेति / मुक्तावाविद्यकभेदाभावाद् ज्ञानवत्वं न स्यादित्याशंक्येष्टापत्तिमाह-मुक्ताविति / एवं स्वाभिमतं कर्तृत्वलक्षणं निरूप्य पराभिमतं तद् दूषयति-न चेति / उपादानगोचरकृतिमत्त्वमेव कर्तृत्वमित्युक्ते दोषाभावाद् व्यर्थमित्यर्थः / तहि प्राणसञ्चारस्यापि जीवकृतिसाध्यत्वात्तस्य तत्कर्तृत्वापात इत्याशंक्य रेचकपूरकादिप्राणव्यापारे तदिष्टमित्याह-न चैवमित्या