SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिछेच्दः 329 न च सर्वसंयोगित्वमात्रं समाप्तिः समितिपदवैय्यात् तेन सर्वस्याकाशसंबम्धविलक्षणस्यैव सर्वत्वहेतुतया प्रतिपादनात् / __ न च रूपादिना संयोगोऽपि / ततस्तद्वचनस्य सर्वात्मत्वपरत्वाभावे पदद्वयबाधः। ___ न च प्राणादिसर्वात्मत्ववत् ब्रह्मणोऽपि तदुपासनार्थम् / तस्य वस्तुतत्वपरत्वात् प्राणस्य च प्रमाणसिद्धभेदस्य न तत्स्वरूपमिति तदुपासनार्थम् / / प्रपञ्चस्य सत्तादात्म्यानुभवादपि सदात्मब्रह्मणः सर्वात्मत्वम् / सद्बुद्धे र्लाघवेनात्मस्वरूपसत्तामात्रविषयत्वनिश्चयात् / अविद्यान्यथाभावः प्रपंचस्य सदधिष्ठानं विनाऽयोगादपि ब्रह्मण उपादानत्वम् / तस्माद्रज्जुरिवाहेः सर्वस्य स्वरूपापरित्यागेन ब्रह्मोपादानमिति / ब्रह्मणो निमित्तत्वनिरूपणम् एवं जगत्कर्ताऽपि परमात्मैव तदन्यस्य कर्तुरसंभवात न हि सर्वशं सर्वक्ति मुक्त्वा विविधजगद्रचना संभवति / ननु ब्रह्मणो जगत्कर्तृत्वे प्रत्यक्षं न प्रमाणं तदनुपलं मात् / ननु कुलालादयो ब्रह्माभिन्नाः "ब्रह्म दाशा ब्रह्म दासा ब्रह्मवेमे कितवा" सवगतत्वपरतया व्याख्यातेति तत्राह----सर्वमिति / आकाशसंबन्धविलणस्यति / आकाशस्येतरैर्यः संबन्धस्तद्विलक्षणस्येत्यर्थः / इतरथेश्वरस्योत्कर्षाभावेन स्तुत्ययोगादिति भावः / सर्वसंयोगस्य बाधितत्वादपि न तत्परतेत्याह----न चेति / पदद्वयेति / सर्वपदस्य समित्युपसर्गस्य च बाध इत्यर्थः / “प्राणोह पिता प्राणो माते"त्यादिवदात्मनः सर्वात्मत्वश्रतिरुपासनापरेत्याशंक्य वैषम्यमाह----न चेत्यादिना / वस्तुतत्वपरत्वादिति / वस्तुतत्वपरत्वे बाधकाभावादित्यर्थः / लाघवानुगृहीतप्रत्यक्षादपि सद्रपब्रह्मणः सर्वतादात्म्यसिद्धेस्तदुपादानमित्याह---- प्रपञ्चस्येति / अर्थापत्तिमप्याह--अविद्योति / ब्रह्मणोऽधिष्ठानतया जगदुपादानत्वान्न निर्विकारत्वक्षतिरित्युपसंहरति-तस्मादिति / ब्रह्मणो जगदुपादानत्वे तत्कर्तुरभावात्तस्यापि तदनुपपन्नमिति तदुपपत्त्यनुपपत्तिमाशङ्क्यान्यस्य तत्कर्तृत्वासंभवेऽपि ब्राह्मणस्तत्संभवात् तदुपपत्तिरित्यभिप्रेत्याह-एवमिति / उपादानस्य ब्रह्मणः कर्तृत्वे मानाभावात् तस्यापि तदनुपपन्नमिति चोदयति-नन्विति / श्रुतियुक्तिभिर्जीवब्रह्मणोरभेदाज्जीवानां च प्रत्यक्षेण घटादिकर्तृत्वावगमाद् ब्रह्मापि तत्कत्रिति तदेव कार्यमात्रकत्रिति शंकतेननु कुलालेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy