________________ 328 सटीकाद्वैतदीपिकायाम् "सर्वाणि ह वा इमानि भूतानि" ''यतो वा इमानि भूतानि" इत्यादि ब्रह्मण्येव सृष्टिलयप्रतिपादकं श्रुतिजातमपि तत्र प्रमाणम् / न चोर्णनाभिवत् संहर्तृत्वमानं ब्रह्मणो न तु लयाधारत्वमिति वाच्यम् / ऊर्णनाभेहि गृह्णत इति वचनात् तस्य निगरणमेव / इह त्वाकाशं परमात्मानं प्रत्यस्तंयन्ति यत प्रयन्ति नाशं प्रतिपद्यमानानि सन्त्यभिसंविशन्ति, आभिमुख्येन तदात्मतया प्राप्नुवन्तीति कार्यस्य तदात्मताप्राप्तिश्रवणान्न तथा। न हि कार्यस्य निमित्तमात्मा येन विनाशस्तदात्मतामात्रं स्यात् / एवं "मय्येव सकलं जातं मयि सर्व प्रतिष्ठितम् / मयि सर्व लयं याति तद्ब्रह्मास्म्यहमद्वयमि"ति वाक्यं ब्रह्मण्येव जन्मस्थितिलयाधारत्वं दर्शयत्तदुपादान. त्वे प्रमाणम् / एकविज्ञानात सर्व विज्ञानश्रुतिरुपादानतया सर्वसंमतमृदादिदष्टान्तेन तदुपपादनश्रुतिश्च कार्यप्रपञ्चस्य तदतिरिक्तसत्तां निराकुर्वती तत्र प्रमाणम् / न चैतस्मिन ज्ञाते अन्यत्सर्वमेतत्सदशमिति तदपि ज्ञातप्रायमेव तस्य प्रधानत्वाद्वोपचार इति वाच्यम् / असति वाधे तदयोगात् सादृश्याभावस्य श्रुतित एव प्रमितत्वात् / एवं सर्वशाखासु ब्रह्मणः सर्वात्मत्वश्रुतिरपि तत्र मानम् / न चेयमपि सर्वगतत्वमात्रपरेति वाच्यम्, सर्वात्मतयैव सर्वगतत्वस्योक्तत्वात् / अन्यथा तादात्म्यश्रुतेर्बाधप्रसङ्गात् / सर्व समाप्नोषि ततोऽसि सर्व:" इति भगवद्वीतावचनां सर्वात्मत्व बोधयति तादात्म्यस्यैव समाप्तित्वात / सर्वकार्यस्य ब्रह्मणि विलयप्रतिपादकश्रुतिरपि तदुपादानत्वे मानमित्याह-सर्वाणीति / दृष्टान्ततयोत्तोर्णनाभेस्तन्तुसंहर्तुस्तदनुपादानत्वात् ब्रह्मणोऽपि संहर्तृत्वमात्रमिति परोक्तं दूषयति - न चेत्यादिना / निगरणं ग्रसनं आकाशपदस्य व्याख्यानं परमात्मानमिति प्रयन्तीत्यत्रापेक्षितकर्माह-नारामिति / नाशं प्रयन्ति गच्छन्ति सन्ति अभिसंविशन्तीत्यर्थः -- न तथेति / न संहर्तृत्वमात्रमित्यर्थः / आत्मा स्वरूपम् / कैवल्योपनिषदि मुखत एव ब्रह्मणि लयश्रवणादपि तदुपादानमित्याह एवमिति / किं च येनाश्रुतं न भवतीत्यादिना एकविज्ञानात् सर्वविज्ञानं प्रतिज्ञाय कथं नु भगव इत्यादिना क्षिप्य 'यथा सोम्यैकेन मृत्पिण्डेने'त्यादिनोपादानतया सर्वसंप्रतिपन्नमृदादिदृष्टान्तेन एवं सोम्य स आदेश इत्यनेन ब्रह्मणः स्वाभिन्नसत्ताकजगदुपादानतयैव तत्प्रतिज्ञामुपपादयती श्रुतिस्तदुपादानत्वे मानमित्याह-एकविज्ञानादिति / अस्याः श्रुतेः परोक्ततात्पर्य निराकरोति-न चेति / मुख्ये वाधकाभावादुपचारस्तावदयुक्त इत्याह-असतीति / सादृश्यात् सर्वज्ञानमित्येतत् दूषयति–सादृश्येति / श्रुतित इति / "न तत्समश्चे" त्यादिश्रुतेरित्यर्थः। “सर्वं खल्विदं ब्रह्मे"दं सर्वं यदय. मा त्मेत्यादिश्रुतिरपि तत्र मानमित्याह-एवमिति / यदुक्तं इयं श्रुतिः स्मृतिवचनेन