SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 327 करोतीति प्रयोगात् / यत्त्वत्र रूपान्तरवाचकं पदे न श्रूयत इति तन्न, ततो व सदजायतेति श्रवणात् / तस्यैव भेदनिराकरणायेयं श्रुतिरित्युक्तम् / यत्तु 'संभवामि युगे युगे” इत्यादिवदियं श्रुतिरुपपन्नेति तन्न, 'संभवामि' इत्यस्य स्वेच्छया शरीरपरिग्रहमात्रार्थत्वात् / अत्र च स्वयमात्मानमकुरुतेति, स्वस्यैव सदात्मना स्रष्टव्यत्वश्रवणात् / . न च संभवामीत्यस्यापि विभूत्यात्मना स्वसृष्टिरर्थः। विभूतेस्तदन्यत्वानन्यत्वाभ्यां तदात्मना सृष्टयनुपपत्तेः / एवं तदैक्षत बहुस्यामित्येतदप्युक्ताभिप्रायम् / तत्तेजोऽसृजतेत्यादेः सिद्धान्ताभिप्रायः ___ यत्तु तेजआदिरूपेण बहुभावो वाच्यः तेजःप्रभृति चात्र चेतनं ऐक्षत असृजतेति श्रवणात् चेतनान् प्रति न ब्रह्मोपादानमिति तव मतमिति / तन्न / अत्र हि योग्यतावशात प्रथमतेजः पदेन भौतिक तेजो गृह्यते तेजः सृष्टयनन्तरं तदवच्छिन्नमुत्तरकार्यस्योपादानं निमित्तं चेति तेजोऽवच्छिन्नं ब्रह्म द्वितीयतेजः पदेन गृह्यते यथा आत्मनः आकाशः संभूत इत्यत्र प्रथमाकाशादिपदं कार्यपरं द्वितीयं ब्रह्मपरम् / एवं तदपो सृजतेत्यादावपि / ब्रह्मण उपादानत्वे प्रमाणान्तराणि प्रपञ्चाकारेणाकरोदिति कथं तत्र प्रपञ्चवाचकपदाभावादिति परोक्तमनूद्य निराकरोतियत्त्वित्यादिना / ततो वै सदजायतेत्यनेनैव सृष्टेः संगृहीतत्वात् तदात्मानमिति व्यर्थमित्याशंक्याह--तस्यैवेति / तदात्मानमित्यस्य परोक्तमर्थमनूद्य दूषयति--यत्त्वित्यादिना सदात्मनेति / पूर्वोक्तभूतभौतिकसृष्टिसंग्राहकत्वादस्य' मन्त्रस्यावतारपरत्वायोगादिति भावः / 'संभवामि युगे युगे” इत्यत्रापि ईश्वरस्य विभूत्यात्मना सृष्टिरर्थः। ततश्च तदात्मानमित्यनेन न वैषम्यमित्यत आह-न चेति / विभूतेरीश्वरादन्यत्वे तस्य तदात्मना सृष्टिरयुक्ता / अनन्यत्वे च विभूतेरपि साऽनुपपन्नेत्यर्थः। एतेन तदात्मानं सृजाम्यहमित्येतदपि व्याख्यातं सोऽकामयतेत्यनेन तुल्यार्थत्वात् 'तदक्षते' ति छन्दोगवतिरपि ब्रह्मोपादानत्वपरेत्याह-एव मिति / ___अत्र परोक्तमनूद्य निराकरोति-यत्त्वित्यादिना। योग्यतावशादिति। द्वितीयान्ततेज:पदार्थस्य सृज्यत्वश्रवणात्तद्भौतिकतेजः प्रथमान्ततेजः पदार्थस्य बहुभवनोचितत्वाभिधा. नात्तेजोऽवच्छिन्नं ब्रह्मवेत्यर्थः / ब्रह्मपरमिति / “यतो वा इमानि भूतानि जायन्ते" इति भूतमात्रस्य ब्रह्मजत्वाभिधानादाकाशाद्वायुरित्यादिपञ्चम्यन्ताकाशादिपदं तत्तदवच्छिन्नं ब्रह्मपरमिति भावः। तदपोऽसृजत ता आप ऐक्षन्ते' त्यत्रापि प्रथमोऽपशब्दो भूतपरः / द्वितीयस्तु ब्रह्मपर इत्याह-एवमिति / 42
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy