________________ 324 सटीकाद्वैतदीपिकायाम् अपाये यदुदासीनं ध्रुवं वा यदि वा चलम् / ध्रुवमेवातदावेशात् तदपादानमुच्यते // इति / ततश्च विभागावधिरेवापादानमेतत् सूत्रविषयः। न चात्मन: आकाश इत्यादिश्रुत्या विभागहेतुक्रियोच्यते उत्पत्तिश्रुतेः / अन्यथा तन्निमित्तत्वमपि ब्रह्मणस्त्वदभिमतं ततो न सिध्येत् / सोऽकामयतेत्यादितः ब्रह्मण उपादानत्वनिर्णयः एवं सोऽकामयतेति / यस्मादाकाशादिः स आत्मा कामितवान / काममाहबहु स्यामिति / बहुधाभवेयं कथमेकस्य बहुभवनमित्याशड्याह-प्रजायेय उत्पद्येय / आत्मनश्चोत्पत्तिरात्मसत्तया सदात्मकनामरूपाभिव्यक्तिरेव / ब्रह्मणोऽन्यथोत्पत्त्ययोगादिति जनिसङ्कल्पश्रुतिस्तस्योपादानत्वमाह निमित्तस्य प्रपञ्चात्मना जन्मानुपपत्तेः। न चेयं श्रुतिब्रह्मणोऽनन्तनियन्तृरूपेण प्रवेशविषयेति वाच्यम् / तस्याप्रविष्टरूपेणव नियन्तृत्वसंभवेन तदर्थ प्रवेशवैय्यात् / एकेनापि बहूनां सर्वज्ञेन सर्वगतेन युगपत् सृष्टितनियमनसंभवात् / एकस्य सर्वगतस्य ब्रह्मणो वस्तुतो बहुभवनप्रवेशायोगाच्च / अवास्तवस्य त्वन्मतेऽनुपपत्तेः। न च सिद्धान्ते सृष्टेः पूर्वमन्तःकरणाभावेन तद्विशिष्टाहमर्थाभावात् स्मककर्मानाश्रयत्वादित्यर्थः / फलितमाह-ततश्चेति / क्रियापूर्वविभागस्योत्पत्त्यनन्तरभावित्वादाकाशादेरुत्पत्तेरेवान श्रूयमाणत्वादात्मनस्तद्विभागावधित्वं नैतदर्थ इत्याहन चात्मन इति / विपदादेरुत्पत्त्यनभिधाने दोषमाह - अन्यथेति। ___ आत्मनो बहुभवनसंकल्पश्रुतिरपि तदुपादानत्वे मानमित्याह-एवमिति / सोऽकामयतेति जनिसंकल्पश्रुतिस्तस्योपादानत्वमाहेत्युत्तरेण संबन्धः। तामेव श्रुति विवृ. णोति-यस्मादित्यादिना / अनासिद्धात्मन उत्पत्तिर्वा कथमित्यत आह-आत्मनश्चेति / सदूपाधिष्ठानात्मतादात्म्येन लब्धसत्ताकानिर्वचनीयनामरूपाकारेणाभिव्यक्तिरेवात्मन उत्पत्तिरित्यर्थः / आत्मनः केवलकर्तृत्वमेव संकल्पश्रुत्यर्थः किं न स्यादित्यत आहनिमित्तस्येति / यदुक्तमियं श्रुतिर्बह्वन्तर्यामिरूपेण प्रवेशसंकल्पपरेति, तन्निराकरोति-न चेति / प्रवेशबहुभवनयोनियमनार्थमनपेक्षितत्वेन तत्परत्वकल्पनमयुक्तमित्याह-तस्येति / किं च ब्रह्मणो बहुभवनप्रवेशौ सत्यौ उतानिर्वचनीयौ ? नाद्यः, एकत्वसर्वगतत्वविरोधादित्याह-एकस्येति / द्वितीये दोषमाह-अवास्तवस्येति / ___ संकल्पश्रुतेरात्मनः सृज्यरूपेणोत्पत्तिविषयत्वे उत्तमपुरुषप्रयोगानुपपत्तिः तदर्थस्याहंकारस्य' सृष्टेः पूर्व तव मतेऽभावादिति परोक्तं निरस्यति-न च सिद्धान्त इति / पौरुषेयवाक्यस्थोत्तमपुरुषस्यैव प्रयोक्तृपुरुषाभिधायकतया तदुपाध्यहमर्थापेक्षत्वादस्य