________________ तृतीयः परिच्छेदः 325 उत्तमपुरुषप्रयोगानुपपत्तिः। न होदं वाक्यमीश्वरस्य प्रयोगः येनोत्तमपुरुषप्रयोगोपाधित्वेनाहमर्थान्तःकरणमपेक्ष्येत किन्त्वीश्वरस्य बहुभवनादीच्छां श्रुतिरनुकरोति / नचाहमर्थाभाव ईश्वरस्याहं स्यामितीच्छव कथमिति वाच्यम्, इच्छाप्र. योजकरूपवत्वेनैव तदुपपत्तेः। तच्च जीवानामन्तःकरणमीश्वरस्याज्ञानमेवेत्यन्यदेतत् / अपि च नियम्योत्पत्तः पूर्व तस्यैव कामना युक्ता न तु नियन्तृबहुभवनस्य तद्धि नियम्योत्पत्तिसापेक्षम् / परमेश्वरस्य स्वत उत्पत्यसंभवात् / इदं सर्वमसृज. तेति श्रुतनियम्यसृष्टिहेतुतयाऽपि तत्कामस्यावश्यकत्वात्। ततश्च नियम्यप्रपञ्चात्मना ब्रह्मणो माययोत्पत्तिकामनव श्रुत्यर्थः / तदुक्तम् - व्याकृतिर्या तयोविष्णोः प्रत्यहं नामरूपयोः। भूयोभवनमेतत्स्यान्मायिनोऽनेकता यथा // इति / ते. वा. (2-6-74) सच्चत्यच्चाभवदित्यादितः उपादानतावगतिः / एवं सच्चत्यच्चाभवदिति श्रुतिब्रह्मणो मायया मूर्तामूर्तात्मतां ब्रुवाणा तदुपादानत्वे प्रमाणम् / अन्यथा तद्धावायोगात् / न च परमेश्वरस्य सत्वादिगुणा चापौरुषेयतयेश्वराप्रणीतत्वेन तदीयाहमर्थानपेक्षणात् / इतिपदशिरस्कोत्तमपुरुषान्तमिदं वाक्यमीश्वरकामनामेवानुकरोतीत्याह-न हीदमिति / अन्तः करणाभावे तत्परिणामरूपेच्छा तस्याहं स्यामित्याकारो वा कथं स्यादित्याशंक्येश्वरेच्छाया अविद्यापरिणामत्वात् तद्विशिष्टस्वरूपविषयत्वस्यैव तस्याहमर्थाकारत्वाच्च न दोष इत्यभिप्रेत्याहन चेत्यादिना / किं च नियमनशक्तेः पूर्वं नियन्तृरूपेण बहुभवनकामनायोगेन निरपेक्षसृष्टिकामनैव कामश्रुत्यर्थ इत्यभिप्रेत्याह-अपि चेति प्रजायेयेति / स्वस्यैव सृष्टिकामनाश्रवणात् कथं नियम्यसृष्टिकामनेत्याशंक्याह - परमेश्वरस्येति / स्वतः स्वरूपेणेत्यर्थः। किं चानन्तरवाक्ये “स तपस्तप्त्वा इदं सर्वमसृजते"ति नियम्यसृष्टरेवाभिधानात्कामनां विना तदयोगादियमेव कामना तद्विषयेत्यभिप्रेत्याह-इदं सर्वमिति / फलितमाह - ततश्चेति / नामरूपयोः प्रत्यहं या व्याकृति रेतदेव विष्णोभू यो भवनं बहुभवनं स्यादिति योजना। ब्रह्मणः सत्त्यच्छब्दवाच्यमूर्तामूर्ततादात्म्यबोधकमुत्तरवाक्यमपि तत्र मानमित्याह-एवमिति / यदत्र परेणोक्तमीश्वरस्य सत्वादिगुणाभिव्यक्तिपरं वाक्यमिति / तदयुक्तं / "साक्षी चेता केवलो निर्गुणश्च" "अव्यपदेश्यमसत्वमरजस्कमतमस्कममायमि"त्यादि श्रुतिभिरीश्वरे गुणसंबन्धनिषेधात् इत्याह-न चेति / किं च वृहदारण्यके तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चेति पृथिव्यादित्रितयं . मूर्तमित्युक्त्वा तस्मिन् “एतत् सदिति सछब्दः प्रयुक्तः / तथाऽमतं वायुश्चान्तरिक्षं चेति