________________ तृतीयः परिच्छेवः परमाण्वादिसमवेतं कारणेभ्योऽपृथग्देशं कार्यमुत्पद्यत इति वदतस्तथैवाभिप्राय इति गम्यते। अस्तु वा प्रकृतिपदं कारणमात्रपरं तथापि प्रकृते पञ्चमीविशेषे विनिगमनाभावात् 'मन्त्रस्थानन्त्यश्रुतिबलाच्चोभयकारणत्वपरा। ___ यत्त्वियं पञ्चमी "ध्रुवमपायेऽपादानम्" इति सूत्रविहितापादानपञ्चम्येवेति, तन्न, ध्रुवमपायेऽपादानमित्यस्यापायो बिश्लेषो विभागस्तद्धेतुभूतो गतिविशेष इति यावत् / तस्मिन साध्य इति विषयसप्तमी। तत्र यद्धृवमवधिभूतं तदपादानसंज्ञं भवतीत्यर्थः / तदुक्तम्-- कार्यजननसमये सर्प इव विलादुपादानान्निर्गच्छतीवेति लोकप्रसिद्धयनुसारेण कार्यस्योपादानविशेषोऽस्तीत्यपादानं कार्यावधिभूतमेव / ततश्च 'ध्र वमपायेऽपादानम्" इत्यनेनवापादानसंज्ञासिद्धेः किं जनिकर्तुरिति सूत्रेणेत्यभिप्रायवता भाष्यकारेण तत्प्रत्याख्यातम् / अयमभिप्रायः शक्यो वक्तुं-कथं गोमयावृश्चिको जायते गोलोमभ्यो दूर्वा जायंत इति अपक्रामन्ति तास्तेभ्य इत्यादिनेत्यर्थः भाष्यकाराभिप्रायं प्रकटयन् टीकाकारस्याप्युपादानविषयत्वमेवास्याभिप्रेतमित्याह-कैय्यटेति / अपक्रामन्ति ता इति लोकप्रसिद्धयाश्रयणेनैतदुच्यते / लोके हि यद्यस्माज्जायते तत्तस्मानिर्गच्छतीत्युच्यते / तश्रियास्तु प्रक्रिया भिद्यन्ते वैशेषकदर्शने परमाण्वादिसमवेतं कारणेभ्योऽपृथग्देशं कार्यमुत्पद्यत इति नास्ति कार्यस्यापक्रमः / सांख्यदर्शने त्वाविर्भावतिरोभावलक्षणजन्मनाशरूपपरिणामाभ्युपगमात् नास्त्यपक्रम इति वदतः कैय्यटकारस्याप्युपादानविषयत्वमेवाभिप्रेतमिति गम्यत इत्यर्थः। पुत्रात्प्रमोदो जायत इत्युदाहरणानुरोधेन प्रकृतिपदं कारणमात्रपरमित्यंगीकृत्यापि आत्मन इति पंचम्या उभयकारणत्वमप्यर्थ इत्याह-अस्तुवेति / आनन्त्यश्रुतिबलादिति / सत्यं ज्ञानमनन्तं ब्रह्मेति वाक्ये प्रतिज्ञातं त्रिविधपरिच्छेदशून्यत्वमानंत्य नुपपादयितुमेव हि "तस्माद्वा एतस्मादात्मन आकाशः संभूत" इत्यादिना सृष्टिः प्रस्तूयते। तत्र चात्मन उपादानत्वानभिधाने तदानन्त्यानिर्वाहात्तेनैकवाक्यत्वानुपपत्तेः सृष्टिश्रुतिरुपादानत्वपरेति भावः। ध्रुवमपायेऽपादानमित्यस्य पूर्वभावित्वाद्विहितापादानसंज्ञानिबन्धनाऽऽत्मन इति पंचमी ततो नात्मन इत्युपादानत्वसिद्धिरिति चोद्यमनुवदति-यत्त्विति / अत्रापायपदेन लोकदृष्टयोपादानकारणनिःसृतकार्यसाधारणापायविवक्षायां जनिसूत्रस्य वैय्यर्थेऽपि नास्माकं क्षतिः। क्रियापूर्वकविश्लेषविवक्षायां तु प्रकृते तदसंभवान्नैतत्सूत्रेणापादानसंज्ञा किन्तु जनिसूत्रेणैवेत्यभिप्रेत्याह-तन्नेत्यादिना / अतदावेशादिति / चलना 1 मन्त्रः सत्यंज्ञानमनन्तं ब्रह्मति