SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 322 सटीकाद्वैतदीपिकायाम __न च वियदादेः कार्यत्वे प्रमाणाभावः। “आत्मनः आकाशः संभूतः" , "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। रवं वायुयॊतिरापः पृथिवी विश्वस्य धारिणी' इत्यादिजनिश्रुतितः तत्सिद्धेः। आकाशः कार्य भूतत्वात् / स्वसमानसत्ताकविभागाश्रयत्वात् पृथिव्यादिवत् / न च परमाण्वादौ व्यभिचारः, सत्वे तस्य पक्षत्वात् / निरवयवेऽप्याकाशे परमते अस्मन्मते च दुनिरूपो विभागोऽस्तीति नासिद्धिः। आकाशादेश्च कार्यत्वे बाधकामावोऽनुकूलस्तर्कः। न चैकस्मात् कारणात् किंचित् स्पर्शवत् किंचिच्च तद्विपरीतं जायत इति न युज्यत इति वाच्यम् / तत्तत्क्रियाविशेषसम्पन्नभोगानुग्रहीत्रीश्वरानुग्रहकृतमूल परिणामिन एकस्मादपि तत्तत्कार्यविशेषोपपत्तेः। आत्मन आकाशः संभूत" इत्यादिश्रुतिरपि ब्रह्मण उपादानत्वे प्रमाणम् / आत्मन आकाश इत्यादेः निमित्तयञ्चमीत्वनिरासः न चात्मन इत्यादिपंचम्या निमित्तत्वमानं प्रतिपाद्यते। जनिकः प्रकृतिरिति सूत्रे उपादान एवापादानंसंज्ञाविधानात् / अत एव महाभाष्ये उपादानमेवोदाहृत्य तत्सूत्रं प्रत्याख्यातम् / कैयटस्यापि त्वमेव परिमाणासमवायिकारणमित्यत्र नियासकाभाव इत्यर्थः / ततश्च वैयादेव तदनारम्भको वक्तव्य इति भावः। किं चाकाशान्तः करणादौ स्पर्शाभावेन तदुपादानस्यापि तद्रहितत्वात् स्पर्शो न द्रव्योपादानत्वव्यापक इत्याह-वियदादीति / वियदादेः कार्यत्वस्यैवासिद्धस्तदुपादानमेव नेत्याशंक्य तत्कार्यत्वस्य श्रुत्यनुमानसिद्धत्वान्मैवमित्याह-न च वियदादेरिति / आत्मनि व्यभिचारवारणाय स्वमानसत्ताकेत्युक्तम् / न चाज्ञानादौ व्यभिचारः तस्य विभागगुणाश्रयत्वे मानाभावात् / न च कालादौ व्यभिचारः पक्षतुल्यत्वादिति भावः / यदुक्तं निरवयवसंयोगवन्नि. रवयवविभागोऽप्यसिद्ध इति तत्राह-निरवय इति / पृथिव्यादिवदाकाशादेरपि कार्यद्रव्यत्वे कथं स्पर्शराहित्यमित्याशंक्याह--न चैकस्मादिति / सिद्धान्तेऽदृष्टाभावात्तत्तक्रियाविशेषेत्युक्तम् / अनुमानाद् ब्रह्मणो जगदुपादानत्वमुक्त्वा श्रुतिरपि तत्र मानमित्याह-आत्मन इति / यदुक्तमात्मन इति पंचमी निमित्तार्थेति तत्राह-न चेति / उपादान एवेति / प्रकृतिपदस्योपादाने रूढत्वान्निमित्तदण्डादावप्रयोगात् पदमञ्जरीकारेणापि प्रकृतिरित्यस्य विवरणं-कारणमिति उपादानकारणमित्यर्थ इत्युक्तत्वाच्चेति भावः। भगवता पतञ्जलिनाप्युपादानपरमेव प्रकृतिपदमित्यभिप्रेत्येदं सूत्रं निराकृतमित्याह-अत एवेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy