SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 321 तहि चैत्रोऽपि ब्रह्मैवेति दृष्टान्तासिद्धिः। चैत्रचैतन्यमप्यन्तःकरणतद्वत्ते. द्रव्यस्योपादानमिति न तदपि दृष्टान्तः। यदपि न जगच्चेतनप्रकृतिकं तत्स्वभावाननुरक्तत्वादिति तत्र चेतनपदेन ज्ञानाश्रयाभिधाने सिद्ध साधनं चैतन्यमात्राभिधाने हेतावपि तत्पदस्य तदर्थत्वादसिद्धिः सन् घटः घटः स्फुरति इत्याद्यनुभवात्। उपादानत्वे स्पर्शवत्त्वं प्रयोजकमिति नियमनिरासः यत्तु स्पर्शवद्रव्यस्यैवोपादानत्वान्नाविद्या ब्रह्म वोपादानमिति / तन्न; आकाशादेरपि शब्दाधुपादानत्वात् / द्रव्योपादानत्वे स्पर्शवत्त्वं प्रयोजकमिति चेत; न, अन्त्यावयविनि वर्तमानस्य तस्य तत्राप्रयोजकत्वात् / न च स्पर्शवत्वं तदव्यापकम् अनुकूलतर्काभावेनाप्रयोजकत्वात् / पुरुषार्थप्रयुक्तद्रव्योत्पनिःस्पर्शादप्यविरोधात् / अन्यथा द्वयणुकाभ्यां परमाणुभिश्च तव मते कार्य किं न स्यात् / न च मानाभावादेव तदभावः / द्वयणुकद्वित्वपरमाणुवहुत्वे परिमाणासमवायिकारणे, अनेकसमवेतमहत्वासमानाधिकरणद्रव्योपादानसंख्यात्वात् परमाणुद्वित्वादिवत् / विनिगमकाभावश्चानुकूलस्तर्कः / वियवाद्युपादाने स्पर्शाभावादपि न स्पर्शी द्रव्योपादानत्वव्यापकः। परोक्तानुमानमप्यनूद्य निराकरोति-यदपीत्यादिना / ___ स्पर्शवत एवोपादानत्वनियमात्तद्रहिताविद्यादिर्नोपादानमित्युक्तमनूा दूषयतियत्त्वित्यादिना / उपादानत्वमात्रे न स्पर्शवत्त्वं प्रयोजकं किन्तु द्रव्योपादानत्व इति शंकते--द्रव्येति स्पर्शवत्त्वस्य तत्प्रयोजकत्वं किं तद्व्याप्यत्वं तद्व्यापकत्वं वा? नोभयथापीति क्रमेणाह-नान्त्येति / अप्रयोजकत्वादिति / द्रव्यनिमितत्वस्येव द्रव्योपादानत्वस्यापि स्पर्शवत्व प्रत्यव्याप्यत्वे वाधकाभावादिति भावः। भोजकादृष्टप्रयुक्ता द्रव्यसृष्टिः प्रमाणबलान्निः स्पर्शादप्युपपद्यते इत्याह--पुरुषार्थेति / भोगस्यानियामकत्वे बाधकमाह-अन्यथेति / द्वयगुकद्वयस्य परमाणुत्रयस्य च मानाभावादेव न द्रव्यारम्भकत्वमित्यत आह-न चेति / परिमाणासमवायिकारणेति / परमाण्वादिगतबहुत्वादेर्व्यणुका दिगतपरिमाणासमवायिकारणत्वायोगात् तज्जन्यपरिमाणाश्रयद्रव्यान्तरसिद्धिरिति भावः। मनोगतद्वित्वादी व्यभिचारवारणाय द्रव्योपादानेत्युक्तम् / द्रव्यपदेनकजातीयं द्रव्यं विवक्षितमतो विजातीयद्रव्योपादानविजातीयपरमाणुगतद्वित्वादौ न व्यभिचारः / तन्त्वादिगतद्वित्वादौ व्यभिचारवारणाय-महत्वासमानाधिकरणेति / परमाण्वेकत्वे व्यभिचारवारणायानेकसमवेतेति / अप्रयोजकत्वं निराकरोति-विनिगमकेति / परमाणुगतद्वित्वमेव द्वयणुकगतबहु.
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy