________________ 318 सटोकाद्वतदीपिकायाम् एतेन ज्ञानत्वानन्दत्वे अपि व्याख्याते, तत्तवृत्त्यनुगतब्रह्मचैतन्यस्यैव तत्रापि भावार्थत्वात् / तस्माज्जातिमन्मात्रे स्फुरणसत्तादात्म्यानुभवात् सत्स्फुरणात्मकं ब्रह्मापि विवर्ताधिष्ठानमुपादानमिति जगदविद्याब्रह्मोपादानकमिति / तदाहुः अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् / आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् // इति // अधुना मम नाथ नास्ति चिन्ता दयया त्वं हृदये न तिष्ठसीति / यदिमे मनसि स्फुरन्त्यजत्रं ___ त्वदृते किं वद दृश्यमस्ति विष्णो॥ ब्रह्मणो निर्विकारत्वश्रुतिसामञ्जस्यम् __न चैवं ब्रह्मणो निर्विकारश्रुतिविरोधः, कल्पितविकारसम्बन्धस्य वास्तवनि. विकारत्वाविरोधात् / श्रुतिप्रतिपन्नत्रैकालिकविकाराभावस्यावास्तवविकारेऽप्यनपायात्। अधिष्ठानस्य निर्विकारत्वाच्च। विकारापवादस्तु तत्त्वसाक्षात्काराद् भविष्यति / योग्य एव चैतन्ये व्यवहाराय तद्योग्यत्वं नाम धर्मोऽभ्युपगम्यते एवं सर्वात्मयोग्ये तस्मिस्तद्योग्यत्वं च / तथा च तत्तद्विशिष्टस्य सद्ब्रह्मपदवाच्यार्थत्वात्तयोः सह प्रयोगोपपत्तिरित्यर्थः / ज्ञानत्वानन्दत्वयोरपि ब्रह्मस्वरूपत्वं भावप्रत्यार्थत्वं प्रसंगादाह-एतेनेति / यदभिन्न कार्यमुत्पद्यते तत्कारणमुपादानमित्युपादानलक्षणस्य ब्रह्मण्यपि सत्वात्तदप्युपादानमित्युपसंहरति-तस्मादिति / नामरूपात्मकप्रपञ्चे ब्रह्मतादात्म्यं भासत इत्यत्राभियुक्तसम्मतिमाह-तदाहुरिति / ब्रह्म सर्वोपादानतया सर्वात्मत्वाद्विवेकिनां ब्रह्मदृष्टि: सर्वदा सर्वत्र सुकरेत्यभिप्रेत्याह श्लोकेन-अधुनेति। हे नाथ त्वं दयया मम हृदये चित्ते न तिष्ठसि न प्रकाशस इति या चिन्ता मनस्तापः साऽधुना नास्ति यत् यस्मात् इमे देहादयोऽजस्रं मे मनसि स्फुरन्ति अस इत्यर्थः / ननु देहादिस्फुरणेन कथं मदस्फुरणप्रयुक्तमनस्तापनिवृत्तिस्तत्राह-त्वदृते इति / दृश्यमाने प्रतीयमानसत्तास्फुरणं च त्वमेवेति सा चिन्ता गतेत्यर्थः / ब्रह्मण उपादानत्वे विकारित्वापत्या कूटस्थत्वादिश्रुतिविरोध इत्युक्तं निराक रोति-न चैवमिति /