SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ 317 तृतीयः परिच्छेदः अथाज्ञातविषयानुभवः तात्मैव प्रमाणयोग्यः अज्ञानस्य चैतन्यमात्रविषयः ताया उक्तत्वात् / बाधायोग्यत्वं किं स्वरूपभन्यद्वेति विचारः ननु बाधायोग्यत्वं प्रमाणयोग्यत्वं वा सत्वं ब्रह्मस्वरूपं ततोऽन्यद्वा ? आये ब्रह्मपदार्थातिरिक्ताभावात् सद्ब्रह्मेति प्रत्ययप्रयोगो न स्याताम् / द्वितीये मुक्ती तत्सत्वेऽद्वितीयत्वक्षतिः / असत्वे ब्रह्मणोऽसत्वप्रसङ्गः। ब्राधायोग्यत्वस्य कल्पित. त्वेऽप्येष दोषः समान इति चेत न; ब्रह्मणो बाधयोग्यतायाः श्रुत्यैव निरस्तत्वात् / ब्रह्मणोऽपि बाधयोग्यत्वे कल्पितत्वेन जडतया विश्वान्ध्यप्रसङ्गात् / अधिष्ठानान्तराभावेन ब्रह्मणः कल्पितत्वानुपपत्तेः / सर्वाधिष्ठानाकल्पितप्रकाशस्यैव आत्मत्वात्। तस्मात् सद्रूपमेव ब्रह्म सर्वप्रपञ्चाधिष्ठानं सत्तेति भावार्थः। सत्तादात्म्यात् सति प्रपञ्चेऽधिष्ठानसतोऽप्यनुगतत्वेन भावार्थत्वोपपत्तेः / तथा च न सत्ता ब्रह्मस्वरूपादतिरिच्यते। एवं च कल्पितबाधायोग्यत्वविशिष्टं बाधायोग्यं चैतन्यं सत्ताशब्दार्थः। धर्मान्तरविशिष्टं ब्रह्मशब्दार्थ इति सद्ब्रह्मपदयोर्न सामानाधिकरण्यानुपपत्तिः। दिष्टसिद्धिरित्यभिप्रेत्याह प्रमाणमिति / द्वितीयमतिव्याप्त्या दूषयति-यदि चेति / तृतीयेऽपि ब्रह्मण एव सत्वं न जडस्येत्याह -अथेत्यादिना / ब्रह्मणि यत्सत्वमभ्युपगम्यते किं तदपि सत्यं कल्पितं वा ? तत्राद्यस्तावभेदाभेदविकल्पासह इति शंकते---नन्वित्यादिना ! असत्वप्रसंग इति / सत्वाभावे निर्वचनीयत्वाभ्युपगमेनासत्वापातादित्यर्थः / उक्तदोषं द्वितीयेऽप्यतिदिशति-वाधायोग्यत्वस्येति / कल्पितत्व इति / ब्रह्मस्वरूपत्वे ब्रह्मणोऽपि कल्पितत्वापातः। धर्मत्वे च मुक्तौ तदभावाब्राह्मणोऽसत्वापात इति भावः। बाधायोग्यस्वरूपमेव सत्ता तच्च ब्रह्मणो नातिरिच्यते न वा कल्पितमित्यभिप्रेत्य ब्रह्मणो बाधयोग्यतां निराकरोति-न ब्रह्मण इति / श्रत्यैवेति / असन्नेव स भवतीत्यादिश्रुत्येत्यर्थः / श्रुत्यनुकूलां युक्तिमप्याह-ब्रह्मण इति / ब्रह्मणोऽपि स्वप्रकाशमधिष्ठानान्तरमस्त्वित्याशंक्याह सर्वेति / ब्रह्मस्वरूपस्याकल्पितत्वात् सद्रूपं ब्रह्मैव सत्तेत्यत्र भावप्रत्ययार्थ इत्याह तस्मादिति / ___ ननु घटाद्यनुगतैव सत्ताऽनुभूयते तत्कथं ब्रह्मसत्तेत्युच्यत इति तत्राह-सत्तादाम्यादिति / प्रपञ्चस्य स्वतः सत्ताऽभावेपि सदधिष्ठानतादात्म्येन सद्व्यक्तित्वात् तदनुगताधिष्ठानं सद्ब्रह्मैव सत्तेति प्रकृतिप्रत्ययार्थ इति भावः / फलितमाह-तथा चेति / नन्वतिरिक्तसत्ताभावे सद्ब्रह्मशब्दयोः प्रवृत्तिनिमित्तभेदाभावात्सामानाधिकरण्यानुपपत्तिरित्युक्तं तत्राह-एवं चेति / यथा घटत्वादिधर्मः परैरभ्युपगम्यते एवं वाधा
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy