________________ 316 सटीकाद्वैतदीपिकायाम निविषयं ज्ञानं नास्तीति चेत्; न परमतेऽतीतानागतादिविषयज्ञानस्य भूयसः सत्वात् / परोक्षज्ञानस्य विषयाजन्यत्वेन तेन विनाऽनुपपन्नत्वाभावाच्च / असतोऽसत्त्वसाधनम् / कथं तीसतोऽसत्वसिद्धिः ? कि सिद्धिः सत्ता ज्ञानं वा ? आये न कथमपि। ज्ञानं तु निविषयमेवेत्युक्तम् / प्रपञ्चेऽसदन्यत्वप्रतिपादनस्यापि गतिक्ष्यते। यत्त्वसज्ज्ञानमेव नास्तीति तन्न. [तत्र] एतनिषेधस्यैवानुपपत्तेः। व्यवहारमात्रत्वे च तनिषेधासिद्धः। व्यवहारमात्रस्य ज्ञानजन्यत्वाच्च / तस्मान्नासतो बाधायोग्यत्वे प्रमाणम् / यद्यबाधितोऽनुभवः तहि बाधायोग्यत्वमित्येवायातम् / यदि चानुमवमानं तहि मिथ्यारजतादौ सत्वप्रसङ्गः / किं चासन्न भवतीत्येतदाकारं ज्ञानमेव नास्ति किंत्वेवमाकारं निर्विषयव्यवहारमात्रमित्याह--असदिति / असत्पदश्रवणेऽसद्भानमनुभवसिद्धं तस्य कथमपलाप इत्याशंक्याह-ज्ञानमपीति / तादृशपदज्ञाननिमित्तं विकल्पपदार्थमजानानः शंकते--असत इति / विकल्पस्य निविषयत्वादसतस्तद्विषयत्वमेव नेत्याह - न कथञ्चिदिति / जानातेः सकर्मकत्वान्निविषयज्ञानमनुपपन्नमिति शंकते-निर्विषयमिति / अतीतादिविज्ञातस्य सत्काले विषयासत्वेऽपि परैरभ्युपगमान्नोक्तानुपपत्तिरित्याह-न परमते इति / किं च यद् ज्ञान विषयजन्यं तद्विषयाभानेऽनुपपन्नं विकल्पप्रत्ययस्य च परोक्षत्वेन तदजन्यत्वान्न तेन विनानुपपत्तिरित्याह- परोक्षेति / मेयसिद्धेः मानाधीनत्वादसतो मानागोचरत्वे कथं तस्यायत्त्वसिद्धिरिति शंकतेकथमिति / सिद्धिपदार्थ विकल्प्य दूषयति--किमिति / असत्पदार्थाभावे तदन्योन्याभावस्याप्यभावात्प्रपंचे कथं तदन्यत्वाभ्युपगम इत्याशंक्यासद्वाद्यभिमतासत्वं न दुनिरूपता मात्रेणासदन्यत्वोक्तिरित्यनिर्वचनीयवादे वक्ष्यत इत्याह--प्रपञ्च इति / ताकिकैरसद्वादाद् विकल्पप्रत्ययोऽपि नेत्यभ्युपगतं तदनूद्य निराकरोति - यत्विति / अनुपपत्तेरिति। निष्प्रतियोगिकनिषेधस्य परैरनभ्युपगमादिति भावः। असद्ज्ञानं नास्ति इति न कस्यचिनिषेधः किन्तु निषेधव्यवहारमात्रमित्याशंक्य तस्यासज्ज्ञानसत्वेऽप्युपपत्तेर्न तदपलापसिद्धिरित्याह- व्यवहारेति / स्वतन्त्रव्यवहारस्यार्थ ज्ञानजन्यत्वनियमादपि तज्ज्ञानमावश्यकमित्याह--व्यवहारेति / असतो निःस्वरूपत्वात्तत्र सत्तालक्षगस्य नातिव्याप्तिरित्युपक्रान्तं निगमयति-तस्मादिति / यदुक्तं प्रमाणयोग्यत्वमेव सत्वमिति तत्र प्रमाणपदेनाबाधितार्थानुभवो विवक्षितः उतानुभवमात्रमज्ञातार्थानुभवो वा ? आद्ये ब्रह्मण एवावाध्यत्वात् तस्यैव सत्वमित्यस्म