________________ तृतीयः परिच्छेदः 315 आसीदिति" श्रत्या ब्रह्मणोऽपि बाधितत्वात्, न ब्रह्मापि सदिति नवीनोक्तं प्रत्युक्तम् / असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मति चेद् वेद सन्तमेनं ततो विदुरिति श्रुत्या ब्रह्मणोऽसत्वं प्रतिषिध्य सत्वस्य प्रतिपादितत्वात् / "असद्वा इदमग्र आसीत्" इति श्रुतिस्तु सृष्टेः प्राक् प्रपञ्चस्यानभिव्यक्तनामरूपतां दर्शयति। न तु ब्रह्मणोऽसत्वं इदमिति जगतः परामर्शात् ततो वै सदजायतेति उत्तरवाक्यविरोधाच्च। 'कथमसतः सद जायेत" इति श्रुत्यैवासतः सदुत्पत्तनिराकरणात्। सत्वं प्रमःणयोग्यत्वंप्रपञ्चेऽपोति पूर्वप: तन्निरासश्च ननु बाधायोग्यत्वं न सत्वं असतोऽपि बाधायोग्यत्वात् न ह्यसदभावः केनचित् प्रमाणेन प्रमीयते, किन्तु प्रमाणयोग्यत्वं, तच्च प्रपञ्चस्यापि प्रत्यक्षादियोग्यत्वादस्तीति न सदभेदानुभवो ब्रह्मगोचर इति चेत् न, धर्मस्य स्वरूपस्य वा बाधायोग्यत्वस्य निःस्वरूपासतोऽसंभवात् / न हि तस्य कश्चित् धर्मो न वा किञ्चित् स्वरूपमस्ति। तथात्वे क्लप्तपदार्थस्यैव कस्यचिदसदिति नाममात्रं कृतं स्यात् / कथं तहसन् सन्न भवतीत्यादि निषेध इति चेत्, न, असदिति ज्ञानं सद्विषयं न भवतीत्येव निषेधात् / असत्सन्न भवतीतिवदज्ञाननिमित्तविकल्पव्यवहारमात्रत्वाच्च ज्ञानमपि तादृशं विकल्पप्रत्ययरूपं तत् न निवार्यते। असतो ज्ञानविषयत्वं वा कथमिति चेत; न कथञ्चित् विषयाभावेऽपि परोक्षज्ञानसंभवात् / देहात्मतानुभवविरोधेन स्वर्गकामो यजेतेत्यादेरप्यन्यपरत्वापातादित्यर्थः। उक्तयुक्तिभिरेव परोक्तवाधकमपि निरस्तमित्याह--एतेनेति / असद्वेतिश्रुत्या ब्रह्मणोऽसत्वस्यैवोक्तत्वात् सत्त्वप्रतिपादकश्रुतिरेवान्यपरा किं न स्यादित्यत आह-असद्वा इति / असच्छ• ब्दस्य शून्यपरत्वेऽनन्तरवाक्यविरोधश्चेत्याह-तत इति / असतः सदुत्पत्त्युपपत्तेर्न तद्विरोध इत्याशंक्याह-कथमसत इति / __ वाधायोग्यत्वमेव सत्वं तच्च ब्रह्मण एवेत्युक्तमाक्षिपति-नन्विति / किं तर्हि सत्वमिति वीक्षायामाह- किं त्विति / फलितमाह-तच्चेति / वाधायोग्यत्वरूपसत्वमसत्यति व्याप्तमित्येतत्तावद् दूषयति-न धर्मस्येति / असतो निधर्मकत्वे कथं सत्प्रतियोगिकतादात्म्यस्य तत्र निषेध इति शंकते-कर्थ तीति / असच्छब्दोल्लेखिज्ञानस्यैव निषेधमित्वं न त्वसतः तस्य निषमित्वेऽसत्वव्याघातादित्याह-नासदिति /