SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 314 सटीकाद्वैतदीपिकायाम् सत्ताजातिनिराकरणम् किं च जातिः सति वर्तते असति वा? आद्ये आत्माश्रयः / न द्वितीयः असत आश्रयत्वानुपपत्तेः। यत्तु सत्वोपलक्षिते सत्तेति / तन्न, तदुपलक्षिततदाश्रयस्यापि सत्वासत्वव्यतिरिक्तप्रकारान्तरस्य तव मतेऽसंभवात् / अपि च सबुद्धिविषयः सत्ताजातिश्चेत् सामान्यादौ सद्बुद्धिनं स्यात् सत्ता वा स्यात् / तत्रापि सत्तैकाधिकरण्येन सद्बुद्धिरिति चेत् न, अन्यत्र सद्बुद्धेः सत्तासमवायविषयत्वे प्रतीतिवैलक्षण्यं विना सामान्यादौ विषयवलक्षण्यकल्पनायोगात् / अन्यथा गुणादावपि तदैकाधिकरण्यात् सा किं न स्यात् / अत एव सामान्यादौ स्वरूपविषयिणी सदबुद्धिरन्यत्र जातिविषयिणीति प्रत्युक्तं, एकाकारप्रतीतेविषयवलक्षण्यायोगात् सामान्यादावनुगतसबुद्धययोगप्रसङ्गाच्च / बाधायोग्यत्वं सत्तेतिपक्षनिरासः ननु बाधायोग्यत्वं सत्ता सामान्यादावप्यस्तीति चेत्, न, तस्या एव सत्ताया लाघवानुगृहीतानुभवेनोदाहृतश्रुत्या चात्ममात्रतया सिद्धत्वात् प्रपञ्चस्य श्रुत्यनुमानाभ्यां बाधयोग्यत्वस्य सिद्धत्वात्। नवाऽन्यथासिद्धानुभवबलेन न्यायोपोद्वलितश्रुत्यर्थोऽन्यथा नेतु शक्यते; अतिप्रसङ्गात्। एतेनासद्वा इदमग्न अनुमानादितोऽपि प्रपञ्चमिथ्यात्वं निश्चीयत इत्याह-घटादिक मिति / असहा इदमग्र आसीदिति श्रुतेरात्मनोऽपि न सत्त्वमित्याशंक्य तस्य स्वरूपप्रतिपादकानेक श्रुतिविरोधादसच्छुतिरन्यपरेत्यभिप्रेत्याह--अस्तीत्येवेति / आश्रयानिरूपणादपि पराभिमतसत्ताजातिरयुक्तेत्याह-किंचेति / आत्माश्रय इति / सत्ताविशिष्टस्यैव सच्छब्दार्थत्वादिति भावः / किं च सत्ताजातेरेव सद्बुद्धिगोचरत्वे सामान्यादौ सद्बुद्धिर्न स्यादितरथा सामान्यादिकमपि सामान्यवत्स्यादित्याह--अपि चेति / द्रव्यादौ सत्तासमवायः सबुद्धेविषयः सामान्यादौ तु तत्सामानाधिकरण्यमिति शङ्कते-तत्रापीति / विषयवैलक्षण्ये प्रतीतिबेलक्षण्यस्यावश्यकत्वात् द्रव्यादौ सामान्यादौ च सत्प्रतीते_लक्षण्याभावादुक्तविधया विषयवैलक्षण्यमयुक्तमिति दूषयति-नान्यत्रेति / विपक्षे गुणादावपि सामान्यादाविव सबुद्धयुपपत्तेः सत्तासमवायो न स्यादित्यभिप्रेत्याह-अव्यथेति / ननु यत्र सत्ता जातिः संभवति तत्र सद्बुद्धिर्जातिविषयिणी। यत्र तु सा न संभवति तत्र स्वरूपमेव तद्विषय इत्येतदप्ययुक्तमित्याह-अत एवेति / अत. शब्दार्थमाह-एकाकारेति / सिद्धान्त्यभिमतसत्त्व सर्वपदार्थनिष्ठा सर्वत्र सद्बुद्धिविषय इति शंकते-न विति / अस्तीत्येवोपलब्धव्य इत्यादिश्रुत्याऽऽत्मन एव बाधायोग्यत्वावधारणात् तत्तादात्म्यादेव श्रतिबाधितप्रपञ्चे सद्बुध्युपपत्तेर्न तत्र वाधायोग्यत्वमित्याह-न तस्या इति / सद्बुद्धिविरोधात्प्रपञ्चनिषेधश्रुतिरन्यपरेत्याशङ्क्याह-न चेति / अतिप्रसङ्गादिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy