________________ तृतीया परिच्छेदः 319 न च ब्रह्मण उपादानत्वे विकारस्योपादानसमानस्वभावत्वात् परमार्थत्वप्रसङ्गः, अन्यथाऽनिर्वचनीयत्वमपि न स्यादिति परोक्त साधु / यतो विकारस्य परिणामिसमानस्वभावत्वनियमाभावे च जडोपादानं जडमित्यादिनियमो न स्यात् / शुक्तिरजतं चाविद्यापरिणामः तत्समसत्ताकम् / ततः प्रपञ्चस्याज्ञानसमसतैव स्वतोऽपि सद्विलक्षणत्वमेवाविद्यावत् / ___ तस्मात् 'तन्त्वजन्यो घटादिः स्वोपादानजडव्यतिरिक्तोपादानकः कार्यत्वात् पटवदि"ति चेतनोपादानत्वसिद्धिः। अन्यथा सन् घट इत्याद्यनुभवोनुपपत्तेः। विषयस्य निश्चितकत्वे तदपरोक्षत्वानुपपत्तेश्च / न च घटः पटोपादानोपादानको न भवति / तद्भिन्नत्वादात्मवदिति वाच्यम्, चेतनानुपादानत्वे वणितबाधकेनास्य दुर्बलत्वात् / अत एवाकार्यत्वमुपाधिः बाधोनीतस्य पक्षेतरत्वस्याप्युपाधित्वात् / पक्षातिरिक्तव्यावत्य॑सत्वाच्च / ननु श्रुतिप्रतिपन्नविकारतादात्म्यस्य कथमवास्तवत्वमित्याशंक्याध्यारोपापवादन्यायेनात्मनि निविकारश्रुत्यपेक्षयैव विकारसंबन्धानुवादाद् विकारश्रुत्यर्थो न वास्तव इत्यभिप्रत्याह-श्रुतीति / किञ्च परिणामिन एव स्वसमानसत्ताकविकारतादात्म्याद् विक्रियादृष्टोपपन्ना च / न त्वधिष्ठानस्यारोप्यसंबन्धाद् विक्रिया दृष्टोपपन्ना वा / तदुक्तम् “यत्र यदध्यासस्तत्कृतेन गुणेन दोषेण वाऽणुमात्रेणापि स न संवध्यत" इति / अतोऽधिष्ठानब्रह्मणो न विकार इत्यभिप्रेत्याह-अधिष्ठानस्येति / ब्रह्मण्यारोपितविकारस्याविरोधे तन्निवृत्तिः कदापि न स्यादित्याशंक्याह-विकारेति / ब्रह्मण उपादानत्वे नवीनोक्तं बाधकमनूद्यापवदतिनचेत्यादिना। शुक्तिपरिणामस्यापि रजतस्य शुक्तिसमानसत्ताकत्वाभावात्कथमुक्तनियम इत्याशंक्य तस्याविद्यापरिणामत्वादविरुद्धमित्याह-शक्तिरजतमिति / प्रपञ्चस्य परिणामिपर्यालोचनया दृश्यस्वरूपपर्यालोचनया चानिर्वचनीयत्वमेवेत्याह-तत इति / उक्तयुक्तिभिः संभाविते ब्रह्मोपादानत्वेऽनुमानं प्रयुंक्ते-तस्मादिति / घटादिरित्यादिपदेन पटग्रहणं मा भूदिति तन्त्वजन्य इति विशेषणम् / स्वपदं पक्षपरमतो न पटे साध्यवैकल्पम् / अप्रयोजकत्वं निराकरोति-अन्यथेति / जडस्य चिद्रूपब्रह्मानुपादानत्वे संविदभेदासंभवेनापरोक्षतापि न स्यादित्याह-विषयस्येति / सत्प्रतिपक्षत्वं निराकरोतिन च घट इति / प्रतिपक्षानुमाने यावत्पटोपादानजन्यत्वे निषिद्धे कार्यमात्रे साधारणमेकमुपादानं न सिद्धयतीति भावः / तद्भिन्नत्वादिति / पटभिन्नद्रव्यत्वादित्यर्थः। अतो न तन्निष्ठगुणादौ व्यभिचारः। यतः प्रतिकूलतर्कपराहतं प्रत्यनुमानमतः पक्षेतरेणापि सोपाधिकमित्याह -अत एबेति / विपक्षस्य पटस्य व्यावत्य॑स्य सत्वान्न पक्षेतरतापीत्याह-पक्षातिरिक्तेति / घटादेः स्वोपादानजडातिरिक्तोपादानकत्वानुमानेऽपि तर्क 41