SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 312 सटीकाद्वैतदीपिकाया शब्दप्रयोगात् / अप्रत्यक्षाणुपरिमाणं सर्वप्रमाणबहिर्भूतमित्याहुः / घणुकाभावे परमाणुसिद्धि(रनिरस्ता। निरवयवसंयोगानुपपत्तेरपि न परमाणुकार्य जगत् / अत एव परमाणुसमूहो जगदिति निरस्तम् / सूक्ष्मात स्थलोत्पत्तिनिरासः वस्तुतस्तु सूक्ष्मारब्धमवयविद्रव्यान्तरं नास्त्येव तत्कल्पने गौरवात् प्रमाणाभावाच्च / न च पट एकः स्थूल इति व्यवहारस्तत्र मानं, तृणवण [शण ] रोमसूत्रात्मन्येक: पट इति स्थूल इति बुद्धिवद्वनं स्थूलमेकमिति बुद्धिवच्च तदुपपत्तेः। चाक्षुषत्वे च सजातीयसंयोग एव प्रयोजक: न महत्वं तस्य द्रव्यान्तरसिद्धयधीनत्वात्। अपञ्चीकृतानां महत्वाच्च / अन्यथा वृक्षाद्यग्रेणापि मूलकार्यप्रसङ्गः। तस्मादनेकेष्वेकत्वमविद्यां विना न भवतीत्यविद्योपादानमिति। तस्मादविद्येव जगदाकारेण परिणमते / एवं ब्रह्मापि जगद्विवर्ताधिष्ठानमुपादानम्। विवर्तस्याधिष्ठानाभिन्नत्वात् / ब्रह्मणः कारणत्वाच्च / - द्वयणुकेति / परमाणूनंगीकृत्यापि जगतस्तज्जन्यत्वमनुपपन्नमित्याह-निरवयवेति / परमाणूनामसंभवादेव संघातवादोऽप्ययुक्त इत्याह--अत एवेति / उपादानातिरेकेण कार्यद्रव्यस्य कुत्राप्यभावादारम्भवादोऽप्ययुक्त इत्यभिप्रेत्याह--वस्नुत इति / स्थूल एकः पट इत्यादिबुद्धेः सूक्ष्मानेकतन्तुविषयत्वायोगात् तदतिरिक्तावयव्यावश्यक इत्याशंक्य विजातीयतृणवणाधारब्धावयवाभावेऽपि एक इत्यादिबुद्धिवत्तदुपपत्तेनं तदवयविनि मानमित्याह--न चेति / अवयवातिरिक्तावयविनोऽभावे तन्त्वादेरपि परमाणुमात्रत्वेन महत्वाभावाच्चाक्षुषता न स्यादित्यत आह--चक्षुषत्वेवेति / दूरस्थकेशादौ द्रव्यान्तरा. रम्भं विनाऽपि सजातीयसंयोगमात्रादेव चाक्षुषत्वदर्शनादिति भावः / किं च परमाणूनामप्रामाणिकत्वादपञ्चीकृतभूतसंघात एव जगत्तेषां च महत्वान्न चाक्षुषत्वविरोध इत्यभिप्रेत्याह--अपञ्चीकृतेति / अवयवातिरिक्तावयविनः सत्वे तस्य सर्वावयवेष्वेकरूपत्वात् तत्कार्यमपि सर्वत्र स्यादित्याह--अन्यथेति / कारणातिरिक्तकार्यानिरूपणात् तत्र प्रतीयमानमेकत्वादिकमाविद्यकमित्याह-तस्मादिति / अविद्याकार्यस्य मिसमसत्ताकतया परिणामितयैवाविद्योपादानमित्याह-तस्मादिति / अविद्यापरिणामस्य ब्रह्मसमसत्ताकत्वाभावाद्ब्रह्मविवत एव / ततश्चाधिष्ठानतयैव ब्रह्मोपादानमित्यभिप्रेत्याह-एवमिति / ब्रह्मण्यप्युपादानस्य लक्षणं दर्शयति-विवर्तस्येति। सद्रूपब्रह्मणो विवर्तनीयप्रपञ्चेन वास्तवाभेदाभावेऽप्यारोपिततादात्म्यमभ्युपेयमित्युपपादयति-तथा हीति / किं ब्रह्मातिरिक्तसत्ता घटादिस्वरूपमेव पराभिमतसत्ताजातिर्वा? नाद्य इत्याह
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy