SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 310 सटीकाद्वैतदीपिकायाम् न च सा रज्जुस्तन्तुभिरेवारभ्यते, रज्जो पटमयत्वानुभवात् / महत्या अपि पृथिव्यादिव्यक्तेरुद्भूतरूपाभावेनाप्रत्यक्षत्वसंभवाच्च / न चैवं तत्कार्यमप्यनुभूतरूपं स्यादिति वाच्यम्। अनुभूतरूपादप्यदृष्टादिवशादुद्भूतरूपवद्रव्योत्पत्तावविरोधात् ! तप्ततैलस्थादनुभूतरूपात तेजस उद्भूततरतेजउत्पत्तिदर्शनात् / अन्यथा तदुत्कर्षात तदुत्कर्षायोगात् / अप्रत्यक्षत्वाभिप्रायवापञ्चीकृतानां सूक्ष्मतोक्तिः / सिद्धान्ते स्थूलात् सूक्ष्मोत्पत्तिसाधनम् किं च विवर्तवादे सूक्ष्मात्स्थूलोत्पत्तिरिति नियन्तुं नशक्यते / ऊर्ध्वतरगिरिशिखरस्थमहातरुष्वत्यल्पगुल्मादिविवर्तदर्शनात् / ननु पृथिव्यादिव्यक्तरेकैकत्वे कथं पञ्चीकरणं त्रिवृत्करणं वा। तस्य पृथिव्यादिव्यक्तिविभागाधीनत्वाद्विभागस्यानेकवत्तित्वादिति चेत्, न; एकस्मिन्नपि चैतन्ये जीवेश्वरादिविभागवच्चन्द्रादिविभागवच्चाविद्यया विभागोपपत्तेः / कि च पटस्य मध्ये छेदेऽस्त्येवाबाधितो द्वधीभावः / न हि तत्र पूर्व पटभेदोऽस्ति / न च तत्र तन्तूनामेव विभागो न पटस्येति वाच्यम्, इमौ पटौ इत्यनुभवात् / ननु तस्य सावयवत्वाद्विभाग इति चेत् / अस्तु सावयवत्वं तथापि निरवयवस्यवास्य विभागस्तु प्रामाणिक एव / तन्त्वरब्धो न पटारब्धःअतो न त्यभिचार इत्यत आहन चेति / त्र्यणुकोपादानस्य महत्त्वे प्रत्यक्षत्व पात इत्युक्तं परिहरति-महत्या इति / कारणस्यानुद्भूतरूपवत्वे कार्यमपि तथा स्यादि याशंक्य सूक्ष्मात् स्थूलोत्पत्तिवदनुभृतरूपोत्पत्तिरदृष्टवशाद् युज्यत इत्यभिप्रत्याह-न चैवमिति / ___किं च तप्ततैलस्थतेजसोऽनुद्भूतरूपवत्त्वेऽपि तत्र जलसंसर्गादुद्भतरूपवज्ज्वालोत्पत्तिदर्शनानोक्तनियम इत्याह-तस्येति / तत्र तप्ततैलस्थं तेजो न ज्वालोत्पादकं किं त्वन्यतेजोवयवा इत्याशंक्याह-अन्यथेति / अपंचीकृतानां महत्त्वे कथं सक्ष्मभूतानोति व्यपदेश इत्यत आह-अप्रत्यक्षत्वेति / एवं परमतेऽपि स्थूलात् सूक्ष्म मुत्पद्यत इत्युक्तंः सिद्धान्ते तु न कोऽपि विरोधः। यथाप्रतीत्यनिर्वचनीयकार्यसंभवादिति सदृष्टान्तमाह-किं चेति / ___ अपञ्चीकृतभूतानामेकैकव्यक्तित्वमुत्तमाक्षिपति--- नन्विति / अपञ्चीकृतभूतानां मध्ये एकैकं द्विधा विभज्य पुनरेकमधं चतुर्धाविभज्य स्वार्धभागं विहायेतरार्धभागेषु मेलनं पञ्चोकरणं नाम / त्रिवृत्करणं तु तेजोऽबन्नानामेकैकं द्विधा विभज्येतरभूतभागयोमेलनं तदेतद्वयं भूतानामेकैकव्यक्तिकत्वेऽनुपपन्नमित्यर्थः / एकव्यक्ती वास्तवविभागासंभवेश्याविद्यकग्य संभवात्तदधीनानिर्वचनीयपञ्चीकरणाद्युपपत्तिरित्यभिप्रेत्याह--- एकस्मिन्निति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy