SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः न चोदासीनप्रधाने किञ्चिदनुमानमस्ति / नाप्यागमः, श्रुतौ स्मृतौ च जगत्कारणे प्रधानादिशब्दस्याविद्यापरत्वात् / अद्वैतब्रह्मपरर्वेदान्तस्तदन्यप्रतिपादनायोगात् / मायाया उपादानत्वविषयश्रुतिविरोधाच्च न पराभिमतप्रधान श्रुत्यर्थः / माया च ज्ञाननिवाऽविद्येत्युक्तम् / परमाणुनिरासः . नापि परमाणवः प्रामाणिकाः, अप्रत्यक्षत्वात् / कार्यस्यान्यथासिद्धत्वाच्च, या तु त्रसरेणोरुपादानतया द्वयणुकस्य तदुपादानत्वेन परमाणोरुत्प्रेक्षा-त्रसरेणोमहदद्रव्यस्य कार्यमुपादानं तदपि महच्चत् प्रत्यक्षं स्यात् / ततोऽणुद्रव्यस्य तस्योपादानं यत्तत्परमाणुरिति / सापि न साध्वी व्यणुकोपादानगोचरानुमानं हि लाघवादपञ्चीकृतपृथिव्य दिपञ्चकं विषयीकरोति न त्वनन्तद्वयणुकानि गौरवात् / परमाणुसाधकानुमा निरासः ननु ज्यणुकोप'दानं ततो न्यूनपरिमाणं न वा ? आये तदेव द्वयणुकं अणुकार्यस्यैव द्वयणुकत्वात् / अन्त्ये त्र्यणुकं स्वन्यूनपरिमाणवद्रव्यारब्धं कार्यद्रव्यत्वादित्यनुमितेर्न तद्विषय इति चेत्; न अधिकपरिमाणादपि पटादल्पपरिमाणस्य रज्जुद्रव्यस्योत्पत्तेर्व्यभिचारात् / किं च गुणसाम्यरूपप्रधानस्योदासीनत्वात् तस्य' कार्यलिङ्गकानुमानगम्यतैव नेत्याहन चेति / 'अजामेकां लोहितशुक्लकृष्णां 'महतः परमव्यक्तम्” “अक्षरात् परतः परः” प्रकृति पुरुषं चैव" 'प्रधानपुरुषेश्वर” इत्यादिश्रुतिस्मृतिप्वजादिपदैः प्रधानमेवोच्यत इत्यत आह-श्रताविति / अति विरोधादिति / मायां तु प्रकृति विद्यादिति श्रुतिविरोधादित्यर्थः। न च मायापदेन पराभिमता प्रकृतिरेवोच्यत इत्याशंक्याह-माया चेति / परमाणूनामप्यप्रामाणिकतामाह-नापीति / सर्गाद्यकार्य सोपादानं कार्यत्वादित्यनुमानमविद्य तया च परमाणुसिद्धिरिति परैरूहितं तत् दूषयितुमनुवदति-यात्विति / उत्प्रेक्षामेवाहत्रसरेणोरिति / महत्कार्यस्य कार्योपादानकत्वनियमात् त्र्यणुकोपादानं किञ्चत् कार्य वक्तव्यं तस्यापि महत्वे प्रत्यक्षत्वापातात्तदणुकार्य द्वयणुकमेव / तदुपादानं च ततो न्यूनपरिमाणं नित्यं च वाच्यम् तस्यापि कार्यत्वेऽनवस्थापातात् / स च परमाणुरेवेति भावः / व्यणुकोपादानानुमानस्य स्वाभिमतसूक्ष्मभूतैरन्तरत्वान्न द्वयणुकमेव सिद्धयति कुतस्ततः परमाणुसिद्धिरिति दूषयति-साऽरीति / व्यगुकोपादानतयाऽभिमतसूक्ष्मभूतं विकल्पयन्नर्थान्तरतापरिहारं शंकते-नन्विति / तदपञ्चीकृतभूतं, पूर्वोक्तार्थान्तराभावेऽपि व्यभिचारस्य सत्वादिदमनुमानमेबायुक्तमित्याह-नाधिकेति / रज्जुरपि पटवत्
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy