________________ 308 सटाकाद्वतदीपिकायाम् क्षीरानुपादानप्रसङ्गात् / क्षीरध्वंसाना नपि सुलभत्वात् / उपातक्षीरध्वंसस्यैव हेतुत्वेऽपि पीताद् भूमौ पतिताद्वा दध्युत्पत्तिप्रसङ्गात् / माहिष त क्षीरादुत्पन्नं दधि माहिषमिति व्यवस्थायोगाच्च / क्षीरदध्नोनियततुल्यपरिमाणायोगाच्च।तस्माच्छुक्तिरिव रजतरूपेण क्षीरमेव दध्याकारेण परिणमते. किंबहुना सतोऽसतोऽप्युत्पत्त्ययोगादनिर्वचनीयं कार्य तस्य चाविद्योपादानमिति कार्यमात्रमविद्योपादानमिति / प्रधाननिरासः। एतेन यद्यज्ञानमेवोपादानं तहि घटाद्यनुविद्धं प्रतीयात्, उपादानस्य कार्यानुविद्धतया प्रनीतिनियमादिति नवीनोक्तं परास्तम् / द्वयणुकादौ प्रकृतौ च तदभावात् / अस्मन्मतेऽज्ञानस्यैव घटाद्यनुगतबुद्धिविषयत्वाच्च / तस्मादविद्यातिरिक्तपरपरिकल्पितप्रधानपरमाण्वोर्वणितकार्यजनकत्वायोगादविद्येवोपादानम् / किञ्च प्रत्यक्षं न प्रधाने प्रमाणम्, अज्ञानवदननुभवात्। नाप्यनुमानम्; जगदुपादानजडानुमानानामविद्ययाऽन्यथासिद्धत्वात् / क्षीरस्यैव ध्वंसो हेतु रित्यत आह-उपात्तेति। किं च पार्थिवपरमाणूनां क्षीरध्वंसस्य च सर्वत्र तुल्यत्वाद् दधिषु वैजात्यं न स्यादित्याह-माहिषादिति / / न च माहिषक्षीरध्वंसजन्यत्वान्माहिषत्वमिति वाच्यम् तद्ध्वंसतत्प्रत्यक्षयोरपि तदापातात् / तस्य दधिहेतुत्वे मानाभावाच्चेति भावः। उत्पन्नविनष्टघटावयवैर्घटान्तरारम्भेऽपि यथा तयोर्नतुल्यपरिमाणवत्वनियम एवं क्षीरारम्भकैर्दध्यारम्भेपि तयोस्तुल्यपरिमाणनियमो न स्यादित्यभिप्रेत्याहक्षीरदध्नोरिति / तस्मात् क्षीरमेव दधिभावं भजते स च तस्याविद्यक इत्याह--तस्मादिति / किं च सदसत्कार्यवादस्य दूषितत्वात् कार्यमात्रमनिर्वचनीयमविद्यारूपोपादानं विनाऽनुपपन्नं तत्र मानमित्याह--किं बहुनेति / घटादेरज्ञानोपादानकत्वे परोक्तं बाधकमनूद्य परिहरति एतेनेति / परिशेषप्रमाणादप्यज्ञानमेवोपादानमित्याह--तस्मादिति / प्रपंचस्यानिर्वचनीयत्वात् प्रधानादीनां सत्यतया तदुपादानत्वायोगादनिर्वचनीयाविद्यैव तदुपादानमित्यर्थ. प्रधानादिकमंगीकृत्येदमुक्तम् / वस्तुतस्तदेव नास्ति मानाभावादित्यभिप्रेत्याह- किं चेति / अन तुभबादिति / न च सर्वेषामेव पदार्थानां पुरुषभेदेन सुखदुःखमोहात्मकतया भानात् तद्रूपं प्रधानमनुभूयत इति वाच्यं पदार्थानां सुखादिहेतुत्वेन तद्रूपत्वाभावादिति भावः / तन्त्वनपादानं कार्यं पटोपादानजडोपादानकं कार्यत्वादित्याद्यनुमानमर्थान्तरतया निराकरोति-नापीति /