________________ तृतीयः परिच्छेदः 307 यद्यप्यस्मन्मते सुषुप्तौ शरीरद्वयविलयः तथापि तव मत इव न तदभावः / सूक्ष्मतापत्तेरेव विलयत्वात् / सा च दुनिरूपाप्यसत उत्पत्त्यनुपपत्तेः प्रत्यभिज्ञानाच्चाङ्गीकर्तव्या। न चैवं ब्राह्मणादेरनेकजन्मव्यवहितस्यापि स्मरणप्रसङ्गः / कदाचित्तस्य ब्राह्मणादिशरीरप्राप्तेः संभवादिति वाच्यम्; तदेवेदं शरीरमित्यत्र प्रमाणाभावात् / प्रकृते तु “त इह व्याघ्रो वा सिंहो वे"त्यादि श्रुतिरनुसन्धानं च तदेवेत्यत्र प्रमाणम् / शरीराभेदस्यैव लाघवेन तत्प्रयोजक त्वेन क्लप्तत्वात्। तस्मात् प्राथमिकमेव शरीरं मायाविशरीरवन्मायया वर्द्धत इति परिमाणगुरुत्वाद्याधिक्योपलब्धिः / क्षीरस्य दधिभावपि न क्षीरनाम: एवं क्षीरस्य दधिभावोऽपि मायया। क्षीरस्वभावे स्थिते तस्य दधिभावानुपपत्तेः तत्स्वभावावस्थायां दधिभावानुपलब्धश्च / क्षीरविनाशे क्षीरारम्भकैः परमाणुभिर्दध्यारम्यत, इत्येतत् स्थवीयः। परमाणूनां सर्वत्र सुलभतया दध्यर्थ ननु सिद्धान्ते स्वापे स्थूलशरीरलयाभ्युपगमात् कथमामरणं शरीरैक्यमित्याशंक्य सूक्ष्मतापत्तेरेव लयत्वेन पराभिमतविनाशानभ्युपगमान्न विरोध इत्याह-यद्यपीति / ननु स्वापे देहादेः सूक्ष्मरूपत्वं ततो भिन्नमभिन्नं वा ? आये न देहैक्यसिद्धिः / द्वितीये जाग्रतो न विशेष इत्याशंक्य भेदादिनाऽनिर्वचनीयैव सा प्रमाणवलादभ्युपेयवेत्याह-सा चेति / सूक्ष्मरूपेण लीनमेव पुनः स्थूलरूपेणोत्पद्यत इत्यभ्युपगमे जन्मशतव्यवहितब्राह्मणदेहस्यापि तावन्तं काल सूक्ष्मरूपेण लीनस्येदानीन्तनब्राह्मणदेहरूपेणोत्पत्तिसंभवेनास्य तदभेदात् तेनानुभूतमिदानीं स्मर्येतेत्याशंक्य तत्सूक्ष्मरूपात् तस्यान्यत्वेऽप्येतच्छरीरसंभवादस्य तदभेदे मानाभावान्मैवमित्याह-न चै / मिति / ___ सुषुप्तौ लीनमेव पुनर्भवतीत्यत्र वा किं मानमिति बीक्षायामाह-प्रकृत इति / अनुसन्धानस्य शरीराभेदगमकत्वमुपपादयति- शरीरेति / शरीराभेदेऽपि परिमागगुरुत्वादिवैषम्यं मायिकमेकमवेत्युपसंहरति-तस्मादिति / किं च क्षीरस्य दधिभावः सर्वप्रसिद्धः / स च वास्तवो न संभवति, क्षीरस्वभावे नष्टे स्थिते वा तस्य तद्भावायोगात् / सोऽप्याविद्यक इत्याह-एवमिति / क्षीरस्य न दधिभावः। किन्तु परमाणुपर्यन्तक्षीरस्वरूपे नष्टे पुनस्तैरेव परमाणुभिद्वर्यगुकादिक्रमेण दध्यारभ्यते इति मतमयुक्तं क्षीरस्य परमाणुपर्यन्तनाशें दध्युत्पत्तेः पूर्व कदाचित् तदनुपलंभापातान्नाशकाभावाच्चेत्यभिप्रेत्याह- क्षीविनाश इति / किं च परमाणुषु पृथिवीत्वादिठ्याप्यजातेरभावात् पार्थिवपरमाणव एव क्षीरा:रंभकाः तैश्च दध्युत्पत्तौ सर्वत्र तेषां सुलभत्वात्तदथिनः क्षीरोपादानं न स्यादित्याह-- परमाणूनामिति / क्षीरध्वंसोऽपि तत्र कारणमित्याशंक्याह--ीरेति / तत्काले गृहीत.