________________ सटोकाद्वतदीपिकायाम् परिमाणभेदेऽपि न द्रव्यभेद इत्यत्र युक्तयः क्रिञ्च दिनपक्षादिव्यवहितानुभवविषयस्याननुसंधानप्रसङ्गः / शरीरभेदे जन्मान्तरोयानुभवविषय इव तदयोगात् / यदपि शरीरभेदे जातिस्मरणेऽनुसन्धानं दृश्यते सोऽदृष्टविशेषमहिम्ना त्वदभिमतपरमाण्वादिचाक्षुषप्रत्ययवत् / अदृष्ट. विशेषशून्यस्य शरीरभेदे अननुसन्धानमेव अयोगिनामिव परमाणौ चाक्षुषानुभवाभावः / अन्यथा तद्वदेव सर्वेषामपि जन्मान्तरीयानुसन्धानप्रसङ्गः। न चादृष्टविशेषशून्यस्य जन्मभेद एवाननुसन्धाने प्रयोजकः जन्मक्ये चानुसन्धानमुपपद्यत इति वाच्यम्; शरीरान्तरप्राप्तिलक्षणजन्मनो वाल्पादिशरीरभेदेऽपि सत्त्वात् / शरीरनिरूपितजन्मभेदस्याननुसन्धानप्रयोजकत्वे गौरवात् लाघवाच्छरीरभेदस्यैव प्रयोजकत्वात्।। एतेन देहावयवानुस्यूतेरनुसन्धानमिति निरस्तम्। शरीरावच्छिन्नेनानुभूतस्य तदवयवावच्छिन्नेन स्मर्तुमशक्यत्वात् / तव मते तयोभेदात् / अन्यथा चैत्रदेहारम्भकत्र्यणुकादेः शरीरान्तरेऽप्यारम्भकत्वात् तत्राप्यनुसन्धानापत्तिः / साक्षाच्छरीरारम्भकावयवानां च न कुत्राप्यनुस्यूतिः / न हि बालागल्याद्यवयवः स्थविरदेह आरभ्यते। तदर्थमुत्तरदेह एवापेक्षितः न पूर्वदेहनाश इत्याह-पूर्वेति / कालादिना पूर्वदेहनाशमाशंक्याह-भोगेति / किं च बाल्यादिदेहानां परिमाणभेदाद्भदे पूर्वदेहेऽनुभूतविषयस्य पश्चात्स्मरणं न स्यात् शरीर भेदस्याननुसंधानप्रयोजकत्वादित्याह-किं चेति / कथं तर्हि शरीरभेदे जातिस्मृतिमतो जन्मान्तरेऽनुभूतस्मरणमित्याशक्य तस्य योगितुल्यत्वात् तद्व्यतिरिक्तविषय एवायं नियम इत्याह - यदपीत्यादिना / अदृष्टविशेषरहितस्यापि शरीरभेदेऽप्यनुसन्धाने दोषमाह-अन्यथेति / देहभेदो नाननुसन्धानप्रयोजकः येनोक्तदोषः स्यात् किं त्वदृष्टविशेषरहितत्वे सति जन्मभेद एवेत्याशङक्योत्तरोत्तरदेहानां तूत्पत्त्यभ्युपगमे जन्मभेदोऽपि दुर्वार इति दूषयति-न चेत्यादिना / किं च शरीरजन्मभेदापेक्षया लाघवाच्छरीरभेद एवाननुसंधानप्रयोजक इत्याशंक्याह - शरीरेति / पूर्वशरीरारावयवानामुत्तरशरीरेऽप्यारम्भकतयाऽभ्युपगमात् तदवच्छिन्नात्मनः पूर्वदेहानुभूतानुसन्धानमित्यप्ययुक्तं अन्यावच्छिन्नेनानुभूतस्यान्यावच्छेदेन स्मरणायोगादित्याह-एतेनेति / शरीरभेदे सत्यपि तदारम्भकानुस्यूतिमात्रेणानुसन्धानेऽतिप्रसंगमाह- अन्यथेति / अनुभवहेतुदेहसाक्षादारम्भकाणामेवानुस्यूतिरनुसंधाने हेतुः त्र्यणुकादिकं तु न तथेत्याशंक्य तहि प्रकृतेऽप्यनुसन्धानं न स्यादित्याह-साक्षादिति /