SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ तृतायः पारच्छेदः 305 ख्याकार्यभेदेन द्रव्यान्तरत्वात् / एकपटमात्रवृत्तिसंयोगस्याविद्यां विनाऽसंभवेन रज्जुप्रतीतेः संयुक्तद्रव्यविषयत्वकल्पनानुपपत्तेश्च / तस्मादेकस्मिंश्चन्द्र द्वित्ववदेकस्मिन् पटादौ द्वित्वस्य मायात्मकत्वात्तन्नियम्यः संयोगोऽपि तदात्मक इति तत्कार्यमपि तथैव। मायया अधिकपरिमाणे वृक्षादौ न्यूनपरिमाणकार्य दृष्टमिति महापटारब्धरज्जुपरिमाणमपि तादृशमेव / एवं बाल्यादिशरीरमप्युत्तरोत्तरशरीराकारेण वर्धमानमविद्याकारणत्वे प्रमाणं मायां विना शरीराभेदेऽपि परिमाणभेदायोगात् / द्रव्ये सति पूर्वपरिमाणस्य मायां विना विनाशायोगाच्च। न च पूर्वपरिमाणवति द्रव्ये परिमाणान्तरवद्रव्यसमवाय एव न त्वभेद इति वाच्यम् / एकद्रव्यासमवायात् / परिमाणान्तरविशिष्ट बालशरीरस्यावस्थान्तरेऽनुपलम्भाच्च। अथ पूर्वशरीरापगमे तदवयवैरेव शरीरान्तरमप्यारभ्यत इति चेत; न, पूर्वशरीरविनाशहेतोरभावात् / भोगजनकादृष्टस्य तदहेतुत्वात् / पूर्वशरीरविन शं विनाऽदृष्टकार्यभोगानुपपत्त्यभावाच्च / भोगजनकादृष्टे शरीरारम्भके सत्यन्येनाऽपि शरीरनाशायोगाच्च। भेदकानां भिन्नाकृतीनां कार्याणां रज्ज्वादावपि सत्त्वान्मैवमित्याह-न च तदिति / किं चैकस्मिन् पटेऽविद्यां विना भेदसामानाधिकरणसंयोगस्यैवासंभवान्न संयुक्तपटविषयिणी रज्जुबुद्धिरित्याह-एकेति / अविद्यया वा कथमेकस्मिन् द्वित्वसमानाधिकरणः संयोगः 1 कथं वाऽधिकपरिमाणादल्पपरिमाणारम्भ इत्याशंक्य तस्य बहुशो दृष्टत्वान्न विराध इत्याह-तस्मादित्यादिना। किं च बाल्याद्यवस्थासु शरीराभेदेऽपि तत्परिमाणभेदो दृश्यते / स चाविद्योपादानत्वं विनाऽनुपपन्नस्तत्र मानमित्याह-एवमिति / अविद्यां विनापि कालभेदेन पूर्वपरिमाणनाशः परिमाणान्तरोत्पत्तिश्च कि न स्यादित्यत आह- द्रब्य इति / अल्पपरिमाणववच्छरीरस्याधिकपरिमाणशरीरारंभकतया भेदान्नैकत्र परिमाणद्वयमित्याशंक्य परमते. एकस्यानारम्भकत्वात्, पूर्वशरीरे उत्तरसमवायो न युक्त इति दूषयति--न च पूर्वेति / किं च पूर्वपूर्वशरीरतत्परिमाणानां भेदेनावस्थानमनुपलब्धिविरुद्धमित्याहपरिमाणान्तरेति / पूर्वशरीरं नोत्तरशरीरारम्भकं किन्तु तन्नाशे तदवयवा एव, तथा च नोक्तदोष इति शंकते-अथेति / पूर्वशरीरनाशे सत्येवं स्यात्, स एव हेत्वभावादनुपपन्न इति दूषयति-न पूर्वेति / यौवनादौ भोगजनकादृष्टमेव तन्नाशकमित्याशंक्य तस्य भोगमात्रहेतुत्वान्मैवमित्यभिप्रेत्याह-भोगेति / भोगार्थमेव पूर्वदेहं नाशयतीत्याशंक्य
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy