________________ 304 सटोकाद्वैतदीपिकायाम जन्यते। न च जातस्य जायमानाभेदोऽविद्यां विना संभवति / विरुद्धयोर्वास्तव. क्यायोगात् / अनिर्वचनीयस्यादृष्टमात्रासाध्यस्याविद्योपादानत्वात् / अवयविनि परिमाणभेदे अदृष्टातिरिक्तमायाया आवश्यकता . अत एवादृष्टमेव मायेति पराभिमानो निरस्तः / अत्रादृष्टातिरिक्तमायाया आवश्यकत्वात् / न च दूरस्थवनस्पत्योरिवाविद्यया तदभेदे तद्भद एव स्यात् / अन्यथाऽभेदो मिथ्या न स्यादिति वाच्यम्, वनस्पत्योरभेदस्येवास्य भेदाज्ञानाजन्यत्वात् / तस्मात् प्रथमपटस्तत्परिमाणं च तन्त्वन्तरसंयोगेऽविद्यामहिम्ना दुनिरूपस्वरूपेण वर्द्धते / अत एव स एव पट एतावानासीदिति विवेकिनामप्यनुभवः / एवमेकस्मात् पटादे रज्जुद्रव्योत्पत्तिरप्यविद्योपादानत्वे प्रमाणम् / तद्धयन्वयव्यतिरेकाभ्यां संयोगजन्यं संयोगश्च द्वित्वसमानाधिकरणः द्वित्वं चैकत्वद्वयजन्यमिति नकस्मिन् द्वित्वं तदधिकरणाधिकरणकसंयोगश्च तत्वतः संगच्छते / न चाधिकपरिमाणान्यूनपरिमाणारम्भोऽविद्यां विना संभवति / * न च द्रव्यान्तरमेव न भवतीति वाच्यम् / पटादेरिव रज्ज्वा अपि रूपसमा तच्च तन्मात्रोपादानत्वेऽनुपपन्नमित्यनिर्वचनीयाविद्योपादानत्वसिद्धिरित्याह-न च जातस्येति / अदृष्टवशादेवानिर्वचनीयकार्योत्पत्तिरित्याशंक्य तस्य निमित्तमात्रत्वात् कार्यानुरूपोपादानं विना तदनुपपन्नमित्यभिप्रेत्यादृष्टमात्रासाध्यस्येत्युक्तम। अदृष्टातिरिक्तमायाया अभावाच्छ्र त्यादिष्वदृष्टमेव मायापदार्थ इति पराभिमानो न युक्तः अनिर्वचनी. यकार्यस्यादृष्टातिरिक्तमायां विन ऽनुपपत्तेस्तस्या आवश्यकत्वादित्याह-अत एवेति / . ननु कार्यकारणे वस्तुतो भिन्ने, आविद्यकाभेदवत्त्वात् दूरस्थवनस्पतिद्वयवत् / इतरथा भेदस्य मिथ्यात्वेऽभेदस्य सत्यत्वापातादिति नेत्याह---न चेति / वनस्पत्योर्भेदाज्ञानात्तदभेदारोप इति तद्भेदः पारमार्थिकः / __ अत्र तु ब्रह्माज्ञानादेव कार्यं तदभेदश्चारोपित इति ब्रह्मैव परमार्थो न भेदादिरित्यभिप्रेत्याह-वनसत्योरिति / जाताजाताभेदस्याविद्यकत्वेऽनुपपत्त्यभावात् प्रथमकार्य एवोत्तरोत्तरकार्यमित्याह-तस्मादिति / जाताजाताभेदादिब्रह्माज्ञानविलसित एवेत्यत्र गमकमाह-अत एवेति / अविद्योपादानत्वेऽपित्त्यन्तरमाह-एवमिति / द्विगुणीकृतपटादिनैव रज्जुरारब्धव्या किमविद्ययेत्याशंक्य तां विनकस्मिन् भेदद्वित्वादेरयोगेन तन्नियतसंयोगादेरसंभवेन द्विगुणीकरणादेरेवायोगात्साऽऽवश्यकीत्याह-तद्धीत्यादिना / ___किं चोच्चतरगिरिशिखरवर्तिवृक्षादावल्पतरुगुल्मकरूपकार्यपरिमाणस्याविद्यकत्ववद्विस्तृतपटारब्बाल्पतररज्जुद्रव्यपरिमाणस्याविद्योपादानत्वं वायमित्यभिप्रेत्याह-न चेति / पट एव संयोगविशेषाद्रज्जुतया प्रतीयते न तदारब्धद्रव्यान्तरमित्याशंक्य द्रव्य