________________ सटोकाद्वैतदीपिकायाम् स्वप्रकारीभूतधमद्वयविशिष्टाभेदविषयत्वस्य क्लप्तत्वात् / अन्यत्रापि तस्य स एव विषयः / तथा चोपादानाश्रयाभ्यामेवाभेदो गुणानां रूपरसादीनाम् / नान्योऽन्यं रूपाद्यवच्छिन्नतया घटसत्ताया रसादिसत्तात्मत्वाभावात् तद्भेदस्यापि सत्तावच्छेदकत्वात् / तत्राप्यनुभव एव मानम्। ननु मृद्धटयोर्भेदे कथमेकसत्ताकत्वं दण्डघट योरदर्शनादिति चेत् / कि प्रमाणप्रश्नः ? तत्रोपपत्तिप्रश्नो वा ? आद्येऽभिहित एव सामानाधिकरण्यानुभवः / द्वितीये तु दण्डघटभेदवन्मृद्घटभेदः सत्तावच्छेदको न भवतीति भेदेऽप्ये कसत्ताकत्वम् / भेदसत्ताया एव धर्मिप्रतियोगिसत्तैकत्वविरोधात् / अन्यथा दण्डघटयोरिव मृद्घटयोरयुतसिद्धिर्न स्यात तेषां भेदाविशेषात् / तस्मादधिष्ठानात्मसत्तैव कारणाज्ञानेनावच्छिन्ना कार्येणाप्यवच्छिद्यत इति परिणामपरिणामिनोरेकसत्ताकत्वं तादात्म्यम्। एतेन घटः किं सद्विलक्षण एव तथा सति सन् घट इति धीन स्यात् / अथाधिष्ठानात्मसत्तादात्म्यात् तथा प्रतीतिः घटस्य सत्तादात्म्यं हि तदतिरिक्तसत्ताशून्यत्वमेवेत्यधिष्ठानं सन् घटश्चेति द्वयमेव / तथा च घटस्य सत्तासंबन्धाभावात् न सत्प्रतीतिविषयत्वमुपपद्यते। असद्विलक्षणत्वमेव सद्बुद्धिविषय इति चेत् / न। आत्मनि सत्वस्यैव सद्बुद्धि विषयत्वात् / असन्ज्ञानानपेक्षप्रतीतिक दात्म्यमित्याह-नान्योऽन्यमिति / सत्यपि रूपादाविदं सितं नेत्याद्यनुभव एवोक्तार्थे मानमित्याह-तत्रेति / भिन्नयोरभिन्नसत्ताकत्वस्य क्वचिदप्यदर्शनात् मृद्घटयोस्तत्कथमिति पृच्छति--नन्विति / प्रश्न विषयं विकल्पयन्नुत्तरमाह "किमिति / भेदस्य सत्तानवच्छेदकत्वेऽपि तत्स्वरूपस्य विद्यमानत्वात् कथमेकसत्ताकत्वमित्यत आह-भेदसत्ताया इति / भेदावच्छिन्नाधिष्ठानसत्ताया एवेत्यर्थः / भेद एव लाघवात् सत्तैकत्वविरोधीत्युक्तौ बाधकमाह-अन्यथेति / अयुतसिद्धिर्न स्यादिति / समवायस्य भेदाभेदयोश्च निरासादिति भावः। मृद्घटादावुक्तन्यायेनाज्ञानतत्कार्ययोरपि तादात्म्यसिद्धिरित्याह-तस्मादिति / घटादेरधिष्ठानसत्तावच्छेदकत्वमेव स्वतो न सत्वमित्यभ्युपगमे घटः सन्नित्यादिधीविरोध इत्यादि चोद्यं वक्ष्यमाणविधया निरस्तमित्याह-एतेनेति / स्वतः सत्ताभावेऽप्यधिष्ठानसत्तायास्तदाकारधीरिति शङ्कते - अथेति / घटस्य सत्तादात्म्यं नाम तदभिन्नसत्ताकत्वम् / तच्च पृथक्सत्ताशून्यत्वमेव तथात्वेऽपि घटे सत्तासंवन्धासिद्धेस्तत्र सदा कारधीरनुपपन्नेत्याह-घटस्येति / घटे सत्वाभावेऽप्यसद्वैलक्षण्यस्य' विद्यमानत्वात् सद्बुद्धिविषय' इति शङ्कते-अदिति / आत्मनि घटे च सद्बुद्धेरेकरूपत्वात् कुत्रचित् सत्त्वं तद्विषयः कुत्रचिदसद्वैलक्षण्यमिति विषयभेदोऽनुचित इत्यभिप्रेत्याह-नात्मनीति /