SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 299 गुणानां कार्यत्वेऽपि स्वासमवायिकारणासमानाश्रयत्ववत् कारणातिरिक्ताश्रयत्वस्यापि गुणादौ संभवात्। न च समानकालीनयोराश्रयायिभावोऽनुपपन्नः सव्येतरविषाणवदिति वाच्यम् / सव्येतरविषाणयोहि संबन्धाभावप्रयुक्त आश्रयाश्रयित्वाभावः। न तु समानकालीनत्वप्रयुक्तः भिन्नकालोत्पन्नयोरपि संबन्धाभावे तदभावात् / समानकालीनयोरपि संबन्धे घटपटयोनित्ययोश्चाश्रयायिभावदर्शनात / घटरूपयोस्तु समानकालीनयोरपि तादात्म्यं प्रमाणसिद्धम् / अभिन्नसत्ताकरूपतादात्म्यस्य समानकालीनयोरप्यविरोधाच्च / अन्यथा 'शुक्लो घटः' इत्यादिसामानाधिकरण्यानुभवायोगात् / न च 'शुक्लो घटः' इति मतुब्लोपादभेदवत्प्रतीयते न त्वर्थगत्याऽभेदोऽस्तीति वाच्यम् / शाब्दे हि ज्ञाने मतुब्लोपात् भेदतिरोधानं न तु प्रत्यक्षानुभवेऽपि, अनुभूयते च “शुक्लो घटः” इति / मतुब्लोपानुशासनं अभेदसूचनार्थम् किं च मतुब्लोपानुशासनेऽप्याचार्यस्य सत्ताऽभेदलक्षणतादात्म्यमेव मूलम् / युतसिद्धयोस्तथानुशासनाभावात् / तस्मादयं घट इति सामानाधिकरण्यानुभवस्य कालीने तदनाश्रयत्वस्य सव्येतरविषाणादौ दर्शनाद् घटादेरपि रूपादिसमानकालीनत्वे तदाश्रयत्वं न स्यादित्यांशबय दृष्टान्ते संबन्धाभाष उपाधिरिति दूषयति-न च समानेति / यदि समानकालीनत्वमाश्रयाश्रयिभावाभावप्रयोजकं स्यात् तहि भिन्नकालीनयोनियमेनाश्रयाश्रयिभावः स्यात् सर्वत्रेत्याह-भिन्नकालेति / व्यभिचारमप्याहःसमाने ते / घटरूपयोः समानकालीनत्वे कार्यकारणभावाभावात् तादात्म्यं वा कथमित्याशङ्य तस्या रक्तो घट इत्याद्यनुभवसिद्धत्वादविरोधाच्च नानुपपत्तिरित्याह-घटरूपयोरिति / गुणगुणिनोरत्यन्तभेदवादिनं प्रत्याह - अन्यथेति / गुणवचनेभ्या उत्तरस्य मतुपो लोपस्मरणाच्छुक्ल इति शुल्कगुणवत्वमेवोच्यते न तु तदभेद इत्याशङ्क्याह-न च शुक्ल इत्यादिना / भिन्नसत्ताकयोः संवन्धव्यवहारे कात्यायनेन मतुब्लोपानभिधानाद्गुणवचनेषु तदभिधानं गुणगुणिनोश्च भिन्नसत्ताकत्वरूपतादात्म्यप्रयुक्तमेवेत्याह-किंचेति / गुणगुणिनोः सामानाधिकरण्यानुभवमात्रेण कथं तादात्म्यसिद्धिः सम्वन्धान्तरस्यैव तद्विषयत्वसंभवादित्याशङ्क्यायं घट इत्याद्यनुभवे तादात्म्यस्य विषयतया क्लृप्तत्वात् स एवात्रापि विषयो नान्य इत्युपसंहरति-तस्मादिति / एवं च रूपरसादीनां यत्तादात्म्यमापादितं तदप्ययुक्तमित्याह-तथा चेति / उपादानमविद्यादि आश्रयो घटादि; अभेदो ऽभिन्नसत्ताकत्वं यद्यपि रूपरसादिना घटसत्तैवावच्छिद्यते तथापि रूपाद्यवच्छिन्नसत्ता न रसादिनाऽवच्छिद्यते न वा तयोस्तत्प्रयोजकः सत्तानवच्छेदकभेदः / अतो न तयोस्ता
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy