________________ 298 सटीकाद्वैतदीपिकायाम सामानाधिकरण्यप्रतीतेविषयव्यवस्या कस्तहि मृद्घट इत्यादि सामानाधिकरण्यानुभवविषयः ? तादात्म्यमेव / किं तत, उच्यते-भिन्नत्वे सत्यभिन्नसत्ताकत्वं अस्ति हि मृद्घटयोरेतत्तादात्म्यम्; उपादानोपादेययोः सत्वभेदाभावात / अन्यथा मृद्धट इति सामानाधिकरण्यायोगात। दण्डघटयोस्तु नैवं भेदे समानेऽपि दण्डाधिष्ठानात्तदुपहितात् तत्सत्वाद् घटसत्ताया अन्यत्वात्, तदन्यत्वं च घटसत्वस्य दण्डाद्यभावेऽपि सन् घट इत्यनुभवात दण्डो घट इत्यननुभवाच्च सिद्धम् / नन्वेवमेकघटकार्यरूपरसादीनां घटसत्तकैव सत्तेति रूपरसादेरन्योन्यं सामानाधिकरण्यानुभवः स्यादिति चेत्, न / घटो हि न रूपादीनां कारणम् / रूपादिभिः सहैवोत्पत्तेः सर्वानुभवसिद्धत्वात्, भिन्नकालोत्पत्तौ प्रमाणाभावात् / कार्यभेदस्य मृत्तद्गतरूपादिघटितसामग्रीभेदादेव संभवात् / न च कार्यस्योपादानाश्रयत्वनियमान्न घटे रूपादिकं स्यादिति वाच्यम् / पूर्वमसदिति नानुपलभाद्यनुपपत्तिरित्याशंक्यात्यन्तभेदवादिमतान्न विशेष इति परिहरति-नचेत्यादिना / ___ एवं भेदाभेदयोः सामानाधिकरण्यधीगोचरत्वं निरस्य स्वयमाकाक्षापूर्वक तद्विषयं निरूपयति - कस्तीत्यादिन। / भिन्नत्व इति / न च भिन्नयोरभिन्नसत्ताकत्वं विरुद्धमिति वाच्यम् भेदस्य सत्तावच्छेदकत्वे हि तथा स्यादुपादानोपादेयभेदश्च न सत्तावच्छेदस्तथात्वे मृदघट इति प्रत्ययायोगात् / ततश्चोपादानावच्छिन्नाधिष्ठानसत्तैवोपादेयेनाप्यवच्छिद्यत इति तयो देऽप्येकसत्ताकत्व मिति वक्ष्यमाणत्वादिति भावः / दण्डघटयोरप्येकाधिष्ठानसत्तावच्छेदकत्वादभिन्नसत्ताकत्वे भिन्नत्वं च तुल्यमित्याशंक्याह - दण्डघटयोरिति / दण्डघटयोर्भेदस्य सत्तावच्छेदकतया तयोरपिपरस्परानवच्छिन्नसत्तावच्छेदकत्वेनैकस्यान्योपहितसत्तासंबन्धित्वाभावान्नैकसत्वमिति भावः। उपादानसत्तैवोपादेयसत्ता चेद्रूपरसयोरपि घटसत्तैव सत्तेति तयोरप्यभिन्नसत्ताकतया तादात्म्यानुभवः स्यादिति शङ्कते - नन्विति / रूपरसादीनां घटकार्यत्वमेवायुक्तमिति तावदाह - न घटो हीति ! घटस्य रूपाद्यकारणत्वे घटसामग्रीत एव तदुत्पत्तिर्वाच्या। तथा च सामग्रीभेदाभावात् कार्यभेदो न स्यादित्यत आह - कार्यभेदस्येति / मृद एव घटकारणत्वात्तद्गतरूपादेश्च घटरूपादावेव कारणत्वात् सामग्रीभेद इत्यर्थः / ___घटस्य रूपाद्यनुपादानत्वे तदाश्रयत्वं न स्यात् घटादिकार्यानुपादानस्य तदनाश्रयत्वदर्शनादित्याशक्य कार्यद्रव्याणां स्वासमवायिकारणसमानाधिकरणत्वनियमेऽपि गुणेषु तदभाववदुपादानाश्रितत्वनियमोऽपि नेति परिहरति - न चेत्यादिना / तत्समान