________________ 301 तृतीयः परिच्छेदः सत्ताया निष्प्रतियोगित्वाच्चेति परास्तम् / सद्रूपाधिष्ठाने सद्भेदाभावरूपतादात्म्यस्यव सन घट इति सामानाधिकरण्यानुभवविषयत्वात् / अथवा भेदसत्ताऽविरोधी कश्चिदनिर्वचनीयो धर्मस्तादात्म्यम् / घटस्य दण्डादिव मृदो भेदाननुभवात् / मृघट इत्यभेदानुभवाच्च / कार्यकारणभावसिद्धये सद्भेदनिराकरणम् ___ ननु सद्भेदाभावे कार्यकारणभावशब्दान्तरवाच्यत्वादिकं न स्यादिति चेत्, न, कार्यकारणभावाद्यर्थं हि भेदोऽपेक्ष्यते न तु सद्भेदः स्वप्नरथादेरपि कार्यत्वादेः श्रुत्या दशितत्वात् / तथा च घटादेर्मूदादिप्रतियोगिको भेदो न भेदान्तरवत्सत्तावच्छेदक इति सामानाधिकरण्यप्रतीतिबलात् सिद्धम् / एवं च पक्षद्वयेऽपि भेदस्य सत्ताशून्यत्वात कार्यकारणयोरनिर्वचनीयो भेद इत्युच्यते। अत एव भेगमावस्येव तन्नियतस्यापि भेदसामानाधिकरण्यविरोधः अविरोधे वा कथं भेदाभेदनिरासः इति प्रत्युक्तम्, समानसत्ताकयोरेव प्रतियोगितदभावतनियतयोविरोधात् / तस्मात् कार्यस्य तद्भदस्य च सद्विलक्षणत्व एव कारण असज्ज्ञानमनपेक्ष्यैव सन् घट इति [प्रतीतेः] असद्वैलक्षण्यं न तद्विषय इत्याह-अतदिति / घटस्य वस्तुतोऽधिष्ठानसत्तया संबन्धाभावेऽपि तत्प्रतियोगिकवास्तवभेदस्याप्यभावात् सत्तानवच्छेदकभेदवत्त्वरूपतादात्म्यसंबन्धादधिष्ठानसत्तावच्छेदकत्वेन सद्बुद्धिगोचरतेत्य ह-सद्रपेति / पदार्थान्तरं वा तादात्म्यमित्याह-अथवेति / भेदसत्ताऽविरोधीति / सत्तानवच्छेदकभेदाविरोधीत्यर्थः तत्र मानमाह-घटस्येति / / मृद्घटयोः सत्तावच्छेदकभेदमात्रे कार्यकारणभावोऽपर्यायपदवाच्यता च न स्यादिति शङ्कते-नन्विति / भेदमात्रे सति सत्तावच्छेदकभेदाभावेन कार्यकारणभावाभावादेरदर्शनाद्भद एव तत्र प्रयोजकः स मृद्धटयोरपि तुल्य इत्यभिप्रेत्याह-न कार्यात / मृद्घटभेदस्य सत्तानवच्छेदकत्वे बाधकाभावात् स एव सामानाधिकरण्यधीनियामक इत्याह-तथाचेति / सत्तानवच्छेदकभेदो भेदसत्ताविरोध्यनिर्वचनीयधर्मो वा तादात्म्यमिति पक्षद्वयेऽपि कार्यकारणभेदोऽनिर्वचनीय इत्याह--एवं चेति / नन्वभेदस्य यथा भेदेन विरोधः तथाऽभेदनियताभिन्नसत्ताकत्वस्यापि तेन विरोधान्न भिन्नयोरभिन्नसत्ताकत्वमिति चोद्यं भेदस्यानिर्वचनीयत्वादेव निरस्तमित्याहअत एवेति / अनिर्वचनीयभेदेन तदभावस्य न विरोध इत्यभिप्रेत्य विरोधप्रयोजकमाहसमानेति / प्रतियोगी च तदभावतन्नियतं च द्वंद्वैकवद्भावे प्रतियोगितदभावतनियते तयोरित्यर्थः। कार्यस्य तभेदस्य च सत्यत्वे कारणाभिन्नसत्ताकत्वरूपतादात्म्यायोगात्तयोरनिर्वचनीयत्वमावश्यक; तच्च सन्मात्रोपादानत्वेऽनुपपन्नमित्यनिर्वचनीया. विद्यापि तदुपादानमित्याह-तस्मादिति / परैरपि सद्विलक्षणकार्योपादानाङ्गीकारे