SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 296 सटीकाद्वैतदीपिकायाम् विषयत्ववदेकानुगतस्यापि तथात्वोपपत्तेः / व्यक्तिसर्वगता जातिरिति मतेऽपि व्यक्तिविशेषस्यावश्यकत्वात् / सर्वाधारे काले सर्वजातिसत्वेऽपि घटादिबुद्धयभा. वाच्च / समवायवृत्त्या यत्र जातिस्तत्रैव तद्बुद्धिः / समवायेन वृत्तिश्च व्यक्तिविशेष एव तथैवानुभवादिति चेत्, तह.कस्यापि व्यक्तिविशेषतादात्म्यात् तत्तबुद्धिरिति किमनन्तजातिकल्पनया। तस्माज्जडं कारणमेव कार्येष्वनुस्यूतं तत्तदनुगतबुद्धिविषयः / तच्चास्मदभिमताऽविद्यैव / भनुगतबुद्धिविषयो जड: अविद्येव / तथाहि-मृद्घटयोः सामानाधिकरण्यानुभवादभेदः। न च जाताऽजातयोः पारमार्थिको भेदः संभवति। पूर्वमप्युपलम्भप्रसङ्गात् / कार्यकारणभावानुपपत्तेश्च / मत इत्यर्थः / जातियक्तिविशेषेष्वेव सर्वात्मना वर्तत इति मतेऽपि घटत्वादेः पटादिविलक्षणव्यक्तिविशेषपरतन्त्रतया तदुप गादेव घटाद्याकारघीगोचरेत्याह-व्यक्तिसर्वेति / अस्मिन्मते काले सर्वजातेः सत्वात् तस्य व्यक्तिविशेषत्वाभावादेव तत्र न घटाद्याकारधीरिति व्यतिरेकमाह-सर्वाधारेति / / ___घटाकारबुद्धौ घटत्वादिसमवाय एव नियामको न व्यक्तिविशेष इति शङ्कतेसमवायेति / कालादावपि समवायेन वृत्तिः किन्न स्यादित्यत आह-समवायेनेति / अविद्याया जातेरपि व्यक्तिविशेषतादात्म्यात्तत्तदाकारबुद्धिगोचरतोपपत्तेः तदतिरिक्तानन्तजातितत्समवायकल्पने गौरवमिति दूषयति-तीति / घटादिषु लाघवादेकमेव जडात्मकमुपादानमनुगतबुद्धयालम्बनमित्युपसंहरति-तस्मादिति / तदुक्तम् जाड्य जगत्यनुगतं खलु भावरूप मौढ्य च पुंगतमिदं प्रतिभाति तादृक् / जाड्यौं च मौढ्यमिति चानुभवादिसिद्ध मज्ञानमाहुरपवर्गविधानदक्षाः / तच्च जडं पराभिमता प्रकृतिरेवेत्यत आह-तच्चेति / निर्वचनीयकायस्याविद्यैवोपादानमित्यभिप्रेत्य तस्य पारमार्थिकत्वमपवदति-तथाहीति / जाताजातयोरिति / पूर्वोत्तरकालभाविनोरित्यर्थः मृद एव घटत्वे तस्य मृदि दण्डादिसमवधानात् पूर्वमपि उपलम्भः स्यान्मृत्स्वरूपस्येव घटस्यापि कारणं न स्यादित्याह-पूर्वमिति / मृदः स्वेनाभेद एव घटे, न तु भेदाभेदौ, ततश्च भेदापूर्वमनुपलब्धिः कार्यकारणभावश्चोप
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy