________________ तृतीयः परिच्छेदः 295 घटस्यानुगतेकोपादानत्वाभावे घटो घट इत्यनुगतप्रत्ययस्य निरालम्बत्वप्रसङ्गात, अनुगतविषयमन्तरेण तदयोगात् / न च घटत्वजातिस्तद्विषय इति वाच्यम्; तस्यानुगतस्य नित्यत्वे प्रमाणाभावात्। न हि सर्वमुक्तौ घटत्वादिसद्भावे किश्चिन्मानमस्ति। अनादिकार्यप्रवाहानुगततया तस्यानादित्वान्नित्यत्वं सिद्धमिति चेत् / न, प्रागभावाप्रतियोगित्वस्य ध्वंसप्रतियोगित्वेनाविरोधादप्रयोजकत्वात् / अनारपि प्रमाणसिद्धध्वंसकारणात् ध्वंसस्यावश्यकत्वात् एकस्यैव घटपटाद्यनुगतबुद्धिविषयत्वे संभवति घटत्वाद्यनन्तजातौ गौरवाच्च / न चैवं घटादावपि पट इति बुद्धिप्रसङ्गः। घटादिवृत्तिजातेरेव तत्रापि सत्वादिति वाच्यम्; पटबुद्धौ पटस्यापि कारणत्व त् / सर्वसर्वगता जतिरिति मते व्यक्तिविशेषसमवायादेव तस्यास्तबुद्धि णाय जडपदम् / एतावता कथमज्ञानसोपादानत्वसिद्धिरित्यत आह-तच्चेति / ननूक्तमज्ञानातिरिक्तपटोपादानकं कार्यत्वात् पटवदित्याभाससाम्यमिति चेत् न, अस्याप्रयोजकत्वात् / अज्ञानारिक्तैकजडोपादानस्यानुपलब्धिविरुद्धत्वाच्चेति भावः। तर्हि त्वदुक्तसाध्येऽपि हेतुरप्रयोजक इत्यत आह-सर्वस्यति / पराभिमतजातिरेवानुगतबुद्ध्यालम्बनमित्यत आह-न चेति / पराभिमतजातेनित्यत्वादनुगतबुद्धयालम्बनस्य नित्यत्वे मानाभावान्न जातितेत्यर्थः। अनुगतबुद्धिरेव तत्र मानमित्याशय सर्वमुक्त्यनन्तरं तदभावात्तदा जातिनं स्यादित्याह-न हीति / __ घटाकारानुगतबुद्धिप्रवाहस्यानादित्वात् तदालम्बनतया घटत्वादेरनादित्वसिद्धौ ततो नित्यत्वमनुमीयत इति शङ्कते-अनादीति / अनित्यत्वेऽप्यनादित्वसंभवात् अप्रयोजको हेतुरिति दूषयति-न प्रागभावेति / किं च “यत्र त्वस्य सर्वमात्मैवाभूत्" "तथा विद्वान नामरूपाद्विमुक्त" इत्यादिश्रुत्या जडमात्रस्य नाशश्रवणात्; सर्वमनित्यं जडत्वादित्यनुमानाच्च तस्य नाश आवश्यक इत्यभिप्रेत्याह-अनादेरपीति / किञ्च सर्वत्रकस्यैवाज्ञानस्यानुगतबुद्धयालम्बनत्वे लाघवं पराभिमतजातेरालम्बनत्वे घटत्वपटत्याद्यनन्तजातेः कल्प्यत्वाद् गौरवमित्याह-एकस्येति / उपादानतयाऽज्ञानस्यैव घटपटाद्याकारानुगतबुद्धयालम्बनत्वे घटेऽपि पटबुद्धिः पटे घटबुद्धिरित्याद्यतिप्रसङ्गः स्यादित्यत आह-न चेति / घटादिवृत्तिजातेरिति / घटाधुपादानतयाऽनुगताज्ञानजातेरित्यर्थः / व्यक्तिविशेषोपहितस्यैव तदाकारानुगतबुद्धिगोचरत्वादिति हेतुमाह-पटेति / जातेर्व्यक्तिविशेषोपरागाद् घटाद्याकारबुद्धिगोचरत्वस्य परैरप्यङ्गीकारात् सर्वानुगताविद्यारूपजातेरपि तदुपपत्तिरित्याह-सर्वसर्वगतेति / सर्वाजातिः कत्स्न्येन सर्वगतेति 38